________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥११७॥
OGKONGHO
DISHONGHO%%
एवं खु भावपूआ साविकखा होइ दव्वपूआए । अण्णह मुणिंददाणे तह मइए तित्थवुच्छेओ ॥ १०७॥ एवं प्रागुक्तदृष्टान्तैः खुरवधारणे भावपूजा द्रव्यपूजया सापेक्षा, द्रव्यपूजा विषय स्यैव भावपूजाविषयत्वात्, यो द्रव्यपूजायोग्यो न भवति स भावपूजायोग्योऽपि न भवति, यथा निह्नवः, भावपूजा हि तदाज्ञाराधनं सर्वभावेनेह बोध्यं, यदुक्तं - " दुविहा जिणिंदपूआ दव्वे भावे अ तत्थ दव्वमि । पुप्फाई जिणपूआ जिणआणापालणं भावे || १ ||" इति, अन्यथा भावस्यैव प्राधान्ये तस्यैवाङ्गीकारो युक्तो, नेतरस्यापीति स्वीकारे मुनिदाने तथामत्या तीर्थव्युच्छेदः स्याद्, द्रव्यतोऽशनादिदानं द्रव्यदानं तदपेक्षया शुभाध्यवसायो भावदानं तदेव कर्त्तव्यतया युक्तं स्यात्, तथा च साध्वादीनामनिर्वाहे साधूच्छेदः, तदुच्छेदे च नियमात् तीर्थच्छेदः, यदुक्तं - "न विणा तित्थं नियंठेहिं" ति पञ्चाशकवृत्तावितिगाथार्थः ॥ १०७॥ अथ 'तित्थयरभासि अत्थे' त्यादिप्रागुक्तगाथायां सिद्धान्तप्रतिमयोः सहोत्पत्तिर्भणिता, तत्र द्वयोर्मध्ये किं बलवदिति शङ्कां निराकर्तुं गाथामाह
सिद्धंता जिणपडिमा बलिआ पडिमाउ तित्थमवि बलिअं । विवरीअंपि कहंची तेणमणेगंत जिणवयणं ॥ १०८ ॥ सिद्धान्तात् प्रतिमा बलिका - बलवती "जिणपडिमाणं अच्चणं करेइ" इत्यत्र जिणपडिमाणमितिशब्दात् प्रतिमाया आकारनिम्मपणं तज्ज्ञानादि न संभवति, तथा प्रतिमा नामाकाराभ्यां शाश्वतस्वरूपा अपि, सिद्धान्तस्तु सूत्ररूपोऽशाश्वतरूप एव, अर्चन - | शब्दमात्रेण न पूजाविधेश्च संभवः, संभवति च सर्व्वमपि तथाविधपूजाविषयीभूतां प्रतिमां दृष्ट्वेति यद्वा सिद्धान्तवाक्याद्वस्तुनोऽपि किंचित्सामान्यतो ज्ञानमात्रं भवति, ज्ञानमपि क्रियासंयुक्तमेव फलदं, क्रिया च स्वविषयीभूतां प्रतिमामन्तरेण न स्थात्, न हि समग्र सामग्रीसधीचीनापि पाकादिक्रियानिपुणाऽपि स्त्री तन्दुलान् विना पाकप्रयत्नवती भवति, किंच-मया तुभ्यं लक्षं देयं, त्वया
Jain Education International
For Personal and Private Use Only
SantaHONSIO
प्रतिमाया बलवता
॥११७॥
www.jainelibrary.org