________________
DIGHONG
I
॥११५॥
श्रीप्रवचन- रपि, श्रावकाभावे कस्य धर्मः श्राव्यते ?, नहि रोगिणोऽभावे निपुणस्यापि वैद्यस्य चिकित्साकर्म संभवति, तथा " साहूण कप्पणिअं परीक्षा जं नवि दिण्णं कहिंचि किंपि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥ १ ॥ "त्ति प्रववनवचनादतुल्यपुण्यप्रकृतिबन्धहेतवे ८ विश्रामे सुश्रावकत्वभवनाय अवश्यं विपुलैषणीयाशनादिकं साधुभ्यो देयमेव, तच्च साधुमन्तरेणासंभवीति साघोरपेक्षा, अत एव साधुविरहितदेशे श्रावकस्य निवासो न युक्तः, यदुक्तं - "न वसइ साहुजणविरहिअंमि देसे बहुगुणेऽवि "त्ति, साधोरपि चारित्रभारोद्वहनसमर्थस्य मनुष्यशरीरस्थाशनपानखादिमखादिमवस्त्रपात्रोपाश्रय भैषजादिकमन्तरेणावष्टम्भासंभवाद्, अशनादिकं च गृहस्थायत्तं, यदुक्तं- "जे खलु सारंभा सपरिग्गहा तेसिं निस्साए बंभचेश्वासं वसिस्सामो"त्ति श्रीसूत्रकृदङ्गेऽधिकारवशाद्गृहस्थोऽपि प्रायः श्रावक एव साधुजन शुश्रूषाकारी स्याद् अतः श्रावकापेक्षा, तथा व्रतादिप्रतिपश्यादावपि बोध्यम्, एवममुना प्रकारेण यावदुष्प्रसभो - युगप्रधानो दुष्प्रसभनामा सूरिर्भविष्यति तावतीर्थप्रवृत्तिरच्छिन्ना, न पुनरन्तराले व्युच्छिन्नायाः, तीर्थप्रवृत्तेस्तीर्थकरव्यतिरिक्तस्य केवलिनोऽप्यहेतुत्वात्, साधु श्रावकयोः परस्परमपेक्षैव, दुष्प्रसहं यावत् तीर्थप्रवृत्तेरितिभाव इतिगाथार्थः ॥ १०३ ॥ अथ तीर्थे साधु श्रावकयोः | परस्परं सापेक्षतेवेति नियमार्थं दृष्टान्तत्रयनिबद्धं गाथात्रयं विभणिषुः प्रथमगाथामाह -
HOROSI
असुहो अहो विभागो सुहो अ उवरिल्लओ सनाभीओ । अण्णुण्णं साविकक्खा निरविक्खा दोऽवि नस्संति ॥ १०४ ॥ स्वनामितः अधः - अधस्तनो विभागोऽशुभः “थावरदसगं विवजत्थं" इतिवचनादशुभप्रकृतिजन्यः च पुनरर्थे, उपरितनो विभागः शुभः - शुभप्रकृतिजन्यः, यदुक्तं - "नाभुवरि सिराह सुहं" "सुभगाउ सव्वजणइहोत्ति” एतौ द्वावपि विभागौ अन्योऽन्यं सापेक्षावेव श्रेयोभाजौ, निरपेक्षौं किमस्माकमशुभावयवेनेति घिया पृथकृतौ द्वावपि नश्यतः - विनाशं प्राप्नुतः, नाभेरधोभागकल्पः
Jain Education International
For Personal and Private Use Only
SIGIONS
श्रावकसाध्वोरन्यो
न्यांपेक्षा
॥११५॥
www.jainelibrary.org.