________________
ए
धीप्रवचन
परीक्षा ८विश्रामे ॥१११॥
सिद्धान्तप्रतिमासाम्यं
काoaOHSkOHORRORNO
न्तप्रतिमे अप्युच्येते, ननु श्रावकधर्मप्राप्तौ प्रथमं जिनप्रतिमानिपिणबुद्धिरेव कथमितिचेदुच्यते, श्रावकधर्मे च जिनभवननिर्मा|पणस्यैवोत्कृष्टत्वाद्, एतच्च प्रागेव प्रपश्चिनं, भावनाबुद्ध्या तु चिकीर्षाविषय उत्कृष्टपदार्थ एव भवति, नच 'अत्थं भासइ अरहे'स्यागमवचनात्तीर्थकरभाषितार्थात सूत्ररचनैव युक्ता, न पुनर्जिनभवनादिनिर्मापणमपीति वाच्यं, जिनभवनादीनां निर्मूलकत्वापत्तेः, मूले च विचार्यमाणे भगवान् श्रीमहावीर एव, ननु केन श्रावकेण जिनभवनादिकं निर्मापितमितिचेदुच्यते, कारणं हि तावदश्यं कार्यजनकमित्येवं नियमाभावात् कार्य नाक्षिपति, नहि मनुजत्वं मोक्षाङ्गमागमे भणितमप्यवश्यं जनयत्येव, तस्यान्याशेषकारणसहितस्यैव कार्यजननसामर्थ्यात् , कार्य तु नियमात्कारणमाक्षिपत्येव, कारणमन्तरेण कार्यस्यैवानुदयात् , कारणान्यपि प्रति कार्य कर्तृकरणादीनि विचित्राणि, तत्र प्रकृतं कार्य तावन्जिनभवनादिकं, तच्च बहुवित्तव्ययसाध्यमतो मिथ्यादृष्टिकारितं न संभवति, संप्रत्यपि तथानुपलम्भाद् , अनन्यगत्या तत्कारयितारं श्रावकमेवाक्षिपति, स च यथा श्रीऋषभतीर्थे भरतचक्रवर्ती तथाऽन्येऽपि यावत श्रीवीरतीर्थे यावन्तः शक्तिभाजः श्रावकाः श्राविकाच ते जिनप्रतिमादिकारयितारो बोध्याः, न च नामग्राहं सिद्धान्ते नो भणिता | इति वाच्यं, सिद्धान्तव्यवस्थापनावसरे नामग्राहेणापि वक्ष्यमाणत्वात् , किंच-जिनप्रतिमाराधनं श्रावककुले नमस्कारगणनवत् प्रतीतमेवास्ति तेन यथा त्वदभिमते क्वाप्यागमे नमस्कारगणनं नोक्तं, नहि एतावता नमस्कारस्यापि स्मरणाभावः संपद्यते, किंच-साधुश्रावकाचाराणां सिद्धान्तेऽन्वेषणमज्ञानविलसितमेव, सिद्धान्तस्यैव साधुश्रावकाचारैकदेशरूपत्वात् , वृक्षे पुष्पान्वेषणं युक्तं, न पुनः पुष्पेऽपि वृक्षान्वेषणं युक्तिसंगतमित्यादि पर्युषणादशशतके किंचिदुक्तं, वक्ष्यते चाग्रे अत्रैव विश्रामे, तस्माज्जैनप्रासादाः श्रावककारिता एव भवन्ति, तत्र साक्षिणस्तु श्रीसम्प्रतिराजादिनिर्मापितप्रासादा एव, यदि श्रीसुहस्तिसरिप्रतिबोधितेन श्रावकेण
॥११॥
in Education tembon
For Personal and Private Use Only
www.
byorg