SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा विश्रामे ॥११०॥ साम्यं HIGHONORONORIGHOMGHOROSHOIGS तित्थयरभासिअत्था निम्मविआ सावएहिं जिणपडिमा। अंगाइअसुत्साणं रयणा तहगणहरेहि कया॥१०२॥ सिद्धान्त प्रतिमातीर्थकरभाषितार्थात "अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं" इतिवचनात तीर्थकरभाषितवचनमाकर्ण्य श्रावकैर्जिनप्रतिमा निर्मापिता, तथा गणधरैश्च-गौतमादिभिरङ्गादिकसूत्राणाम्-अङ्गोपाङ्गच्छेदादिसूत्राणां रचना कृता, अयं भावः-भग| वान् श्रीमहावीरः केवलज्ञानसमुत्पच्यनन्तरमपापायां नगयों समवसृतः, तत्र चातुनिकायिकदेवकोटीश्वरनरेश्वरादिसंकीर्णायां पर्षदि साधुधर्मः श्रावकधर्मश्चेति द्विविधं धर्ममुपदिशति स, तत्र सर्वसावधविरत्यात्मको भावस्तवरूपः साधुधर्मः, तं धर्म प्रतिपद्य गणधरा|स्तथाविधकर्मक्षयोपशमवशात्तीर्थकरमुखात त्रिपदीमवाप्य विचित्रगद्यपद्यादिवन्धरचनया द्वादशाङ्गी रचयन्ति,शङ्खशतकादयस्तु साधु धर्माशक्ताः श्रावकधर्मेच्छचो द्रव्यस्तवात्मकं श्रावकधर्ममङ्गीकृत्य तीर्थकरमुखादवगतसम्यक्श्रावककृत्याः यथाशक्ति जिनप्रासामादादिकं निर्मापयन्ति स, न पुनर्गौतमादिरचितसिद्धान्तवचनं श्रुत्वेति, तथात्वे च श्रावकश्राविकालक्षणमध तीर्थ गणधरस्थापित | भवेत् , सूत्रपाठायुचारस्य गणधरादिसाधूनामेव संभवाद् , इष्टापत्तौ च 'तित्थं चाउवण्णो'त्ति वचनात् चतुर्णामपि च साध्वादिव|र्णानां समुदितानामेव तीर्थत्वं भणितं, तथाविधतीर्थस्थापकत्वाभावात् श्रीऋषभादीनां तीर्थकरत्वमपि न स्यात् , तस्साच्चतुर्णामपि | वर्णानां युगपदेव स्थापना ऋपभादिना तीर्थकरेण क्रियते, सा च स्थापना प्रथमसमवसरण एव संजाता, श्रीधीरस्य तु द्वितीय एव 2 समवसरणे । तित्थं चाउवण्णो संघो सो पढमए समोसरणे । उप्पण्णो अ जिणाणं वीरजिणिंदस्स बीमि।।१॥त्ति (२६५ आव.नि.) ॥११॥ एवं साधुश्रावकधर्मयोर्युगपदुत्पत्तौ द्वादशाङ्गीरचनाबुद्धिप्रतिमादिनिर्मापणबुड्योयुगपदेव भावात् , ते च बुद्धी द्वादशाङ्गीरचनाप्र-15 | तिमानिर्मापणयोः कारणे संपन्ने, कारणमधिकृत्य सिद्धान्तप्रतिमयोः सहोत्पत्तिरेव, यद्वा कारणे कार्योपचारात् ते बुद्धी एव सिद्धा HONORRHOLOROSHORRORG Jan Education Interbon For Personal and Private Use Only www.neborg
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy