________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥ १०८ ॥
GHONG
FROST
| नादिनाऽन्येषां ज्ञानजननं, तत्र नियुक्तं - व्यापृतमुपकरणमुच्यते, ततो विपरीता क्रिया- क्रयविक्रयादिना आजीविकादिकरणं तथा| विधकषायोदयात् लेष्टुवत् कञ्चिञ्जीवं प्रति प्रक्षेपादिना जीवघातकरणमजीवबुद्ध्या फलकादाविवावष्टंभनक्रिया वा पुस्तकसंयुक्तेऽपि | शरीरे मलमूत्रादिकरणमित्यादिः क्रिया विषयो यस्य तत्तथा, प्रतिमायाः कार्यं तीर्थकरस्मरणं तीर्थकरस्यैवाराध्यत्वेन बुद्धिकरणं तीर्थकरस्येव पूजादिविधौ प्रवर्त्तनं तीर्थकर पूजाया इव तस्या अपि पूजायाः सुलभबोधिप्राप्तिः स्वर्गादिप्राप्तिवेत्यादिकं तत्र नियुक्ता प्रतिमा | दर्शनोपकरणं, ततो विपरीतक्रिया इयमचेतना पाषाणमयी ज्ञानादिशून्या पृथिव्याद्यारम्भस्थानमित्यादिबुद्ध्या तद्विपयकहीला तत्याजनादिरूपा सैव क्रियाविषयो यस्य तत्तथेति, उभयथापि विपरीतक्रिया लुम्पकमतीयानामेवेति ज्ञानदर्शनोपकरणे केवल मधिकरणे एव बोध्ये, अत एव लुम्पकमतोत्पत्तिसमये निजनृजलेनापि मषी मार्द्रीकृत्यापि लिखितवन्त इति किंवदन्ती सम्यग् संभाव्यते, अन्यथा पुस्तकवत्प्रतिमाऽपि मान्या स्यात्, तद्युक्तिस्त्वेवं- भो लुम्पक ! मूत्रेणार्द्रीकृतया मण्या वृक्षाद्याकृतयो लिख्यन्ते उताकारादिश्रुतवर्णाकृतयो लिख्यन्ते तत्र कश्चिद्विशेषो न वा ? अन्ते गोपालादीनामपि चपेटायोग्यभवनभीत्या प्रथममेव विकल्पं ब्रूते, पुनरपि स प्रष्टव्यः स विशेषः ज्ञानविराधनालक्षणोऽन्यो वा ?, अनन्यगत्या प्रथममेव ब्रूते, तदा यथा ज्ञानोपकरण विराधनया ज्ञान विराधना तथा दर्शनोपकरणं जिनप्रतिमा तद्विराधनया दर्शनविराधना, दर्शने च विराधिते मिथ्यात्वापच्या सर्वमपि विराधितमतो जिनप्र| तिमाऽवश्यमाराध्यत्वेनैव सिद्धा, यद्वा एवं प्रष्टव्यः - भो लुम्पक ! कश्चिच्चदुपदेशनिपुणो नृजलाद्रींकृतया मध्याऽशुचिलिप्तवस्त्रावृतोकारादिवर्णात्मकमाचाराङ्गादिसिद्धान्तं लिखति कश्चिच्चापावित्र्य भीत्या सचित्तजलेन वस्त्रादिशरीरपर्यन्तं प्रक्षाल्य मषीं चाद्रींकृत्य लिखति, द्वयोर्मध्ये भवतां धर्मित्वेन कोऽभिमत इत्याद्युदीरितः सर्वलोकप्रेरितपापाणखण्ड शतपातप्रहति हेतुक निजमस्त कस्फोटन भीत्या
Jain Education International
For Personal and Private Use Only
NGO SONGHOUSE
जिनप्रतिमासिद्धिः
॥१०८॥
www.jainelibrary.org.