________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥१०२॥
GHOLO
पूजानधुत्तारयोराज्ञासाम्यं
सूत्रे उ०४,अत्र विधिनिषेधयोरुभयत्राप्याज्ञातुल्या,यद्यप्युत्सगांदपवादो बलीयानिति न्यायादुत्सर्गापेक्षयाऽपवादो बलीयानुक्तस्तथापि खखस्थानयोर्जिनाज्ञामधिकृत्य तुल्यतैव, यदि पुनरुत्सर्गस्थानेऽपवादमपवादस्थाने चोत्सर्ग सेवते तदा नियमादनाचारवानेव, | यत उत्सर्गापवादौ हि वामदक्षिणनेत्रयोरिव प्रवचनप्रवृत्तिहेतू, नेत्रे च द्वे अपि स्वस्वस्थानस्थे एक श्रेयोभाजी, न पुनः |परस्थानस्थे अपीति, अन्यथा यद्युत्सर्गापवादयोराज्ञामधिकृत्य तौल्यं नाभिधीयते तर्हि स्तवयुग्मं द्रव्यस्तवभावस्तवरूपं न भवेद् , उत्सर्गापवादरूपयोः साधुश्रावकधर्मयोरेकतरस्थानाज्ञालापत्तेरितिगाथार्थः ॥९०॥ अथ प्रागुक्तयुक्त्या किं संपन्नमित्याह
एएणं पडिसेहो अहम्मभावेण धम्मभावेण । विहिवयगंति विगप्पा वयणं अण्णाणविष्णाणं ॥२१॥ |
एतेन-प्रागुक्तप्रकारेण प्रतिषेधः-अमुकं न कर्त्तव्यमुत नाधिकं कल्पते इत्येवंरूपेण यो निषेधः सोऽधर्मभावेन-अधर्मत्वेन | विधिवचनम्-इदमित्थं कर्त्तव्यमित्येवंरूपेण यद्भाववचनं तद्धर्मभावेन-धर्मत्वेनेति विकल्पात्-स्वयं विकल्पितबुद्धेर्यद्वचनं-भाषणं तद्'अज्ञानविज्ञानम्' अज्ञानस्य-मत्याद्यज्ञानस्य विज्ञानं, यद्वा अज्ञानेन विज्ञा अज्ञान विज्ञास्तेषां कुपाक्षिकेष्टश्रुताज्ञानाभ्यासेन पण्डितख्यातिभाजस्तेषामित्यर्थः, अयं भावः-कुपाक्षिको जानाति यदागमे निषिदं तदधर्म एव, यच कर्तव्यतयोपदिष्टं तद्धर्म एवेति तद-1 ज्ञानमाहात्म्यमेव, प्रवचने तथानियमाभागदिति गाथार्थः ॥११॥ अथ यन्निपिद्धं तदधर्म एवेति नियमाभावं दर्शयितुं गाथामाह-!
जिणकप्पे पडिसिद्धं वेआवडिअंपि संघपमुहाणं । दसपुचिअपमुहाणं जिणकप्पो चेव पडिसिद्धो॥१२॥
जिनकल्पे सङ्घप्रमुखाणां तुलामध्यन्यायेन मध्यग्रहणे आद्यन्तयोरपि ग्रहण मित्याचार्यादिचैत्यपर्यन्तानां वैयावृत्यमपि प्रतिषिद्धं, दशपूचिकप्रमुखाणां-दशादिपूर्वविदां विविष्टधर्मोपदेशादिशक्तिमत्वेन जिनकल्प एवं प्रतिषिद्धः, एवं निषेधे सत्यपि द्वयोरपि ।
SHONOISSIODIOHOR
ROUGUSTOR
॥१०॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org