SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ धीप्रवचन परीक्षा ८विश्रामे ॥१०॥ पूजानधुत्तारयोराज्ञासाम्यं YOOOHOROROTOCHOROSORRC धर्मरूपत्वात् ,अयं भावः-जिनकल्पमङ्गीकृत्य वैयावृत्त्यमपि प्रतिषिद्धं, न तावता उग्रक्रियारतेन जिनकल्पिकन परिहतत्वाद् वैयावृत्यं | स्वरूपेणाधर्मः, आचार्यादिवैयावृत्त्यस्य स्थानाङ्गादिषु महानिर्जराहेतुत्वेन प्रतिपादनात् , तस्साजिनकल्पमधिकृत्य तथैव जिनाति बोध्यं, तथा जिनकल्पोऽपि दशादिपूर्वधरैर्विशिष्टज्ञानिमिः परिहतत्वेनाधर्म इत्यप्यनुचितम् , अवश्यमाराधकत्वेन महानुभावानामेव जिनकल्पपालनशक्तेरुदयाद् , एवं निषेधवचनेनाधर्मत्वबुद्धिर्नानेतव्या,वस्तुतस्तु यं पुरुषं यत्कार्यमवधिकृत्य यत्प्रतिषिद्धं तत्तदपेक्षयाऽधर्म एव, अन्यथा जिनैस्तत्प्रतिषेधासंभवात् , प्रतिषिद्धकरणे च निजनिजकल्पभङ्गात् , तद्भङ्गेच जिनाज्ञाभङ्गाद् , जिनाज्ञाखण्डनं च महापापमिति पर्यालोच्य यथा जिनकल्पापेक्षया वैयावृत्यादिरधर्मस्तथा निष्कारणं द्विशस्त्रिशो वा तथाविधनद्युत्तारोऽप्यधर्मः, यथा जिनकल्पिकातिरिक्तानां स्थविरकल्पिकादीनां वैयावृत्त्यादिधर्मः तथा यथोक्तकारणै धुत्तारोऽपि धर्मः, तथैव जिनाज्ञायाः सद्भावात, जिनाज्ञैव धर्मोऽधर्मश्च जिनाज्ञाखण्डनं, यदुक्तं-"आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय चे"ति परमार्थः इतिगाथार्थः ॥९२।। अथ यत्कल्प्यत्वेनोक्तं तद्धर्म एवेत्यत्रापि नियमाभावं दर्शयति सब्वे गोअरकाला विगिट्ठभोइस्स हुति विहिवयणे। जिणकप्पंमि अहम्मो तेणमणेगंत जिणवयणं ॥९॥ विकृष्टभोजिनः साधोः सर्वेऽपि गोचरकालाः कल्पन्ते, यदागमः-"विगिभत्तिअस्स भिक्खुस्स कप्पंति सव्वेऽवि गोअरकाल"त्ति श्रीपर्युषणाकल्पे, इति विधिवचने भवन्ति,ते च गोचरकालाः जिनकल्पे न धर्मः, तस्य तृतीयप्रहर एव गोचरकालाद् , यदुक्तं-"विहाराहारनीहारास्तृतीयप्रहरे दिवे"ति, अत्रापि वस्तुगतिः प्राग्यद्वोध्या, यथा उक्तमकारेण विकृष्टभोजिनं साधुमङ्गीकृत्य सर्वेऽपि गोचरकालाः धर्मत्वेनैवाभ्युपगन्तव्याः, जिनकल्पमाश्रित्य पुनरधर्म एव, जिनकल्पस्यैव भङ्गहेतुत्वात्तथैव जिनाज्ञात्वाच्च, DROSHONG.ORGHONGKONGKONGKONGO ॥१०॥ For Person Prive Oy
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy