________________
H
श्रीनवचनपरीक्षा रविश्रामे | ॥६४॥
क्षणः तस्य प्ररूपणा-तद्वयवस्थापनाय कुयुक्त्युद्भावना तत्र रसिका-अहोरात्रं तदेकध्यानपरायणाः अहमहमिकया व्यसनिनः, एवं-IMI दशाना विधा अपि कुत इत्याह-यस्माद्गुरुपरतन्त्रविरहिताः-परतन्त्रशब्देनात्र भावनिर्देशात् पारतन्त्र्यं तेन शून्या इत्यर्थः, न हि स्त्रीमुक्ति
भ्रष्टत्वं | निषेधादिप्ररूपणां शिवभूत्यादयः स्वकीयस्वकीयगुरुभ्योऽवाप्य कृतवन्तः, किंतु गुरूपदेशमन्तरेणैव निजमतिविकल्पनया प्रादुकृतवन्तः, स्वस्वमतप्ररूपणामधिकृत्य न कस्यापि शिष्या इत्यर्थः, अत एव तेषां स्वस्वशिष्यापेक्षयापि गुरुत्वव्यपदेशः केवलं कलङ्क एव, शिष्यत्वाविनाभाविन एव गुरुत्वस्य सद्भावात् , अयं भावः-यो यो गुरुः स स कस्यापि शिष्यत्वेनासीदेवेत्येवंरूपेण शिष्यत्वाविनाभाव्येव गुरुः, यदागमः-"हंतूण सत्वमाणं सीसो होऊण ताव सिक्खाहि। सीसस्स हुंति सीसा न हुंति सीसा असीसस्स ॥१॥"त्ति श्रीचन्द्रवेध्यकप्रकीर्णके, अत्र दृष्टान्तः श्रीसुधर्मस्वाम्येव, स च श्रीमहावीरस्य शिष्यः सन्नेव श्रीजम्बूखाम्यादीनां गुरुरपि,ननु यथा भगवान महावीरः स्वयं कस्याप्य शिष्यः सन्नेव श्रीसुधर्मखाम्यादीनां गुरुस्तथाऽमी अपि भवन्तु को दोष इति चेन्मैवं,शिवभृत्यादीनां देवत्वापत्तेः,यो यो देवः स च न कस्यापि शिष्य इत्येवंरूपेण शिष्यत्वाभावाविनाभाविन एव देवत्वमित्येवं देवलक्षणोपेतत्वात् , नन्वमीषां देवत्वमेवास्तामितिचेत् चिरं जीव, यतो जैनप्रवचने प्रत्युत्सर्पिण्यादौ चतुर्विंशतिरेव देवत्वेन प्रतीतास्तीर्थकृतो भवन्ति, ते चास्यामवसपिण्यां ऋषभादिवीरावसानाः संभूता एव, अमी च तेभ्योऽधिकाः,अतः प्रवचनवाह्याः स्वत एव मत्साध्यकोटिमारूढाः किंच-माक्सुहृद्वचसा श्रीसुधर्मस्वामिनोऽपत्यत्वमात्मनः ख्यापयन्तस्ते निवारणीयाः, यतस्तथा ब्रुवणानां तेषां स्वरूपस्यैव हानेः, मन्मातृत्ववंध्यत्वयोरिव सुधर्मापत्यत्वस्वतन्त्रप्रणेतृत्वयोर्विरोधात् , तथा च दृष्टान्तासिद्धिः, नहि श्रीवीरः कस्यापि देवस्य गुरोर्वा खात्मनोऽपत्यत्वमाख्यापयतिस्मेत्यादियुक्तिभिर्विचार्यमाणानां शिवभूत्यादीनां गुरुत्वं तदप-||
॥६४॥
For Pesonand Private Use Only