SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २ विश्रामे ॥ ६३ ॥ अथ प्रकृतं विवक्षुराह - अह पगयं दंसेमो वित्थरओ किंचि जं च सामन्ना । भणिअं तित्थसरूवे दसस्सरूवं पसंगेणं ॥ १ ॥ अथ 'प्रकृतं' कुपाक्षिकास्तीर्थाद्भिन्ना इति भव्या जानंत्विति कुपाक्षिकस्वरूपनिरूपणं प्रकृतं प्रारब्धं तत् किंचिद्विस्तरतो दर्शयामः तत्कि ? - यत् प्रसङ्गेन दशस्वरूपं सामान्यात् तीर्थस्वरूपे तीर्थस्वरूपनिरूपणविश्रामे भणितं, प्रसङ्गस्त्वेवं-तीर्थस्वरूपनिरूपणमन्तरेण ततो बाह्याः कुपाक्षिका इति वक्तुमशक्यमिति तत्स्वरूपनिरूपणं प्रासङ्गिकमिति गाथार्थः ||१|| अथ 'तित्थं चाउवण्णो' इत्यादिदशमगाथात आरभ्य ' एवं जुत्तिदिसाए' इत्यादिसप्तनवतितमगाथायर्यन्तं तीर्थस्वरूपं निरूपितम् एवंविधे तीर्थे सिद्धे तत्प्रत्यनीकानां दशानामपि तीर्थान्तर्वर्त्तिनां सर्वथा हेयत्वे सिद्धेऽपि व्यक्त्या तत्स्वरूपं विवक्षुः प्रथमं साधारणस्वरूपमाह--- दसवि अ एए पवयणपओसभावा पवयणओ भट्ठा। गुरुपरतंतविरहिआ उम्मग्गपरूवणारसिआ ||२|| दशापि चैते - प्रागुद्दिष्टा: 'खवणये' त्यादिना दिगम्बरादिपाश पर्यन्ताः प्रवचनतो भ्रष्टाः - जैनप्रवचनतो भ्रष्टाः, जैनप्रवचनाच्च्युतास्तीर्थाद्दूरवर्त्तिन इत्यर्थः कुत इति हेतुमाह - 'पवयण' त्ति प्रवचनप्रद्वेषभावात् - जिनशासन विषयक द्वेषोदयात्, एतत्प्रवचनमस्मत्पराभवकारि माऽस्मदृक्पथमवतरतु, किंतु निस्सत्ताकी भवत्वित्येवंरूपेणानन्तानुबन्धिद्वेषजन्यरुद्रपरिणामसद्भावादिति तात्पर्य, तत्रापि विशेषणद्वारा हेतुमाह यतस्ते कीदृशाः १ - 'उन्मार्गप्ररूपणार सिका' उन्मार्गः - स्त्रीमुक्तिनिषेध१ चतुर्दशीपाक्षिकनिषेध २ पर्वा - |तिरिक्तदिनपौषधनिषेध ३ सामायिकादौ श्राद्धमुखवस्त्रिकानिषेध ४ जिनबिम्बानां पुरः फलादिपूजा निषेध५ श्रुतदेवतास्तुति निषेध६जिनप्रतिमा निषेध७ संप्रति गुरुडग्पथावतारनिषेध८ परम्परागतप्रायोबहुविधिनिषेध९ जिनपूजादिषु साधूपदेश निषेध १० प्रमुखल - Jain Educationa International For Personal and Private Use Only दशानां भ्रष्टत्वं ॥ ६३ ॥ ww.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy