________________
ग्रन्थ
स्याशी
श्रीप्रवचनपरीक्षा १विश्रामे ॥६२॥
जीवलोकम् ,अन्योऽपि सूर्यो लोकं प्रकाशयन्नेवाशीर्भाग् भवति तथाऽयमपि, प्रकाशमपि किं कृत्वा करोतीत्याह-'सासणेत्यादि, शासनं-जैनतीथं तद्रूपो यः उदयगिरिः-उदयाचलो निषध इतियावत् तं प्राप्य तच्छिखरमासाद्य,अन्योऽपि सूर्यो निषधशिखरमासाद्य प्रकाशं कुरुते तथाऽयमपि जैनतीर्थं प्राप्यैव प्रकाशयति, नान्यथा, किंलक्षणं शासनोदयगिरिं ?-'जिनभाषितधर्मसागरानुगतं' जिनेन-अर्हता भाषितो यो दानादिलक्षणो धर्मस्तद्रूपो यः सागरः-समुद्रस्तं प्रत्यनुगतः-प्राप्तः संबद्धोऽनुकारी चेत्यर्थः, | निषधोऽपि समुद्रसंबद्धो भवति, उभयतोऽपि समुद्रस्पर्शीत्यर्थः, अथवा तमनुकारी-समुद्रसदृशः, यथा सूर्यः समुद्रे मण्डलानि कुरुते तथैव निषधेऽपि, यदुक्तं-"तेसट्ठी निसबंमि अदुन्नि अबाहा दुजोअणंतरिआ। एगुणवीसं च सयं सूरस्स य मंडला लवणे ॥१॥” इति, अथ निषधापेक्षया समुद्रे सूर्यस्य भूयांसि मण्डलान्यतः समुद्रोपमयोपमितो निषधः । अत्र धर्मसागर इति प्रकरणकर्तुर्नामापि सूचितं बोध्यमिति गाथार्थः॥१०१॥ इअकुवखकोसिअसहस्सकिरणमि पवयणपरिक्खावरनामंमि तित्थसरूवनिरूवणनामा पढमो विस्सामोसमत्तो॥
। इति श्रीमत्तपागणनभोनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि
प्रकरणे तीर्थस्वरूपनिरूपणनामा प्रथमो विश्रामो व्याख्यातः
॥६
For Pe
a nd Private Use Only