SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १विश्रामे RIL I HAATMARATHIBUALITANIUIMAmeanI HARIPURANTITM सूर्यस्य जयो यस्मात् स रविजयः, सूर्यबृहस्पत्योः परस्परं मैत्रीसद्भावात् बृहस्पतेः सकाशाद्रवेर्जयो भवत्येव, ततो विशेषणसमासः, ग्रन्थकृतौ एवंविधो यः सु-शोभनो गुरुः-बृहस्पतिस्तन्नाम्ना वारस्तसिन् श्रीहिदूविजयसुगुरुवारे, किंलक्षणे ?-'गुरुदैवतपूर्णोदये' गुरुदै वर्ष गुरवश्व वतः-पुष्यं पूर्णा च अर्थाद् दशमी, चैत्रशुक्लपक्षे पञ्चमीदशमीपूर्णातिथ्योः पुष्यनक्षत्रयोगात् , तयोरुदयो यत्र स गुरुदैवतपूर्णोदयस्तसिन्, सं०१६२९ वर्षे चैत्रसितदशमी१० तिथौ बृहस्पतिवारे पुष्यनक्षत्रे चन्द्रे चरति सतीति भावार्थः, गुरुपक्षे पुनाख्यानं यथा-श्रीहीरविजयसुगुरुवारे-सुविहिताग्रणीश्रीहीरविजयसूरीश्वरराज्ये प्रवर्त्तमाने, किंलक्षणे ?-'नवहत्ये 'त्यादि, नव हस्ताः प्रमाणं यस्यैवंविधः कायः-शरीरं यस्य स चासौ राजा च नवहस्तकायराजः-श्रीपार्श्वनाथस्तेनाङ्कितः-अवच्छिन्नोर्थात् | यः कालस्तेन समः-सदृशो महिमा यत्र स तथा तसिन् , अत्समासान्तेन नवहस्तकायराजाङ्कितसममहिमे, यद्वा नव हस्ताः प्रमाणं यस्यैवंविधो राजते इत्येवंशीलो राजी-शोभनशीलः कायः-शरीरं यस्य स प्राकृतत्वाद्विशेषणस्य परनिपातस्तेनाङ्कितःचिलीकृतोऽर्थात् श्रीपार्श्वनाथस्तस्य महिम्नः समो महिमा यत्र स तथा तसिन् , श्रीपार्श्वनाथराज्यसदृशमहिम्नि श्रीहीरविजयसरिराज्ये इत्यर्थः, अयं भावः-श्रीऋषभाद्यपेक्षया हीनकालसमुत्पन्नोऽपि श्रीपार्श्वनाथः सर्वजनेष्वादेयनामा यथाऽभूत् न तथा ऋषभादयः, एवं वज्रवाम्याद्यपेक्षया श्रीवीरजन्मनक्षत्रसंक्रान्तभमराशिमाहात्म्यात् कुनृपकुपाक्षिकबाहुल्येनातथाविधकालो-| त्पन्नोऽपि श्रीहीरविजयसरिर्यथा माहात्म्यभाग न तथा वजस्खाम्यादयः, न चैतद्वर्णनमात्रं, किंतु पारमार्थिकमिति प्रदर्शनाय , | विशेषणद्वारा हेतुमाह, किंलक्षणे श्रीहीरविजयसुगुरुवारे?-'चित्रसितपक्षे' चित्रम्-आश्चर्य यथा स्यात्तथा कुपाक्षिकमुख्यानामपि निजकुपक्षपरित्यागपुरस्सरं सितः-श्वेतः शुद्ध इतियावत् पक्षः-अङ्गीकारो यत्र वारके स तथा तस्मिन् , अयं भावः-कुपाक्षिक ॥६ ॥ Jun Educationam For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy