________________
श्रीप्रवचनपरीक्षा १ विश्रामे
॥ ५९ ॥
| किमर्थं :- भद्रार्थ- मङ्गलायेति गाथार्थः ॥ ९७ ॥ अथ तीर्थस्वरूपोपसंहारमाह
एवं तित्थसरूवं सम्मं मुणिऊण सुकयअन्भासो । विष्णू कुवखकोसिअसहनिरोहं सुहं कुणई ||९८ || ' एवं ' प्रागुक्तप्रकारेण तीर्थस्वरूपं सम्यग् ज्ञात्वा सुकृताभ्यासो विज्ञः पण्डितः कुपक्षकौशिकशब्द निरोधं सुखं यथा स्यात्तथा करोति, कौशिकशब्दो हि जनानामशुभहेतुरतस्तन्निरोध एव श्रेयान् तेन कुपक्षकौशिकोऽपि तीर्थस्वरूपे निरूपिते निरुद्धशब्दप्रसरो भवतीति गाथार्थः ॥ ९८ ॥ अथ विश्रामोपसंहारमाह
एवं कुपकुखकोसिअसहस्सकिरणंमि उदयमावण्णे । दसवि कुवखा विसरा विगयप्पसरा मुणेया ॥ ९९ ॥
‘एवं' प्रागुक्तप्रकारेण कुपक्षकौशिक सहस्रकिरणे उदयं प्राप्ते दशापि कुपक्षाः विखरा-उत्सूत्र भाषकत्वेन विरुद्धः - अश्राव्यः स्वरोनिनादो येषां ते विस्वराः, अर्थात्कौशिका इत्यर्थः, 'विगतप्रसराः' विगतः प्रसरो- गमनागमनादिक्रियारूपो येषां ते तथा ज्ञेयाः पण्डि | तैर्बोध्या इति गाथार्थः ॥ ९९ ॥ अथेदं तीर्थस्वरूपं कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने सति कथितमिति प्रदर्शनाय गाथामाहनवहत्थकायरायंकि असममहिममि चित्तसिअपक्खे। गुरुदेवयपुण्णुदए सिरिहीरविजयसुगुरुवारे ॥१००॥
संवत्सरपक्षे त्वेवं-नवहस्तशब्दौ क्रमेण नवकद्विकसंख्याभिधायकौ, कायाः पृथिव्यादयः समयभाषया षडिति पसङ्ख्यावाची | कायशब्दः, राजा - चन्द्रः स चैकत्वसङ्ख्यावाची ज्योतिर्विदां प्रतीतः, एतैः शब्दैः 'अङ्कानां वामतो गति' रितिवचनात् क्रमेण येऽङ्काः १६२९ ते जाता यासु ता नवहस्तकायराजाङ्किता एवंविधाः समाः संवत्सरास्तासां महिमा - नामग्रहणादिना ख्यातिर्यस्मिन्नेवंविधे | चैत्रसितपक्षे मधुमासस्य शुक्लपक्षे, तत्रापि श्रीहित् रविजयसुगुरुवारे - श्रिया - शोभया हिनोति-वर्द्धते सुरगुरुत्वात् यः स श्रीहित् खेः
Jain Education International
For Personal and Private Use Only
प्रथमविश्रामोपसंहारः
॥ ५९ ॥
www.jainelibrary.org