________________
श्रीवचनपरीक्षा १ विश्रामे
॥ ५८ ॥
गन्धोदकपुष्पवृष्टयादिमिर्देवाः शक्रादयो दर्शनशुद्धिं सम्यक्त्वनैर्मल्यम्मुपलभन्ते तथा मनुजा अपि श्रावकश्राविकादिरूपा जिनभवने तथा कुर्वाणा दर्शनशुद्धिं लभन्ते, देवकृत्यं किमित्याह - 'जलथलय' मित्यादि, जलस्थलजकुसुमराशिं - जले स्थले च जातानि यानि | कुसुमानि तेषां राशिम् अभ्रकरूपां - वाईलाकारां विकुर्वणां कृत्वा जानुप्रमाणां वृष्टिं कुर्वन्ति देवाः, अत्राभ्राकारेण विकुर्वणा, न पुनः कुसुमानि विकुर्वितानि, आगमे 'जलजस्थलजे' ति पाठश्रवणात्, वृष्टिं किंलक्षणा :- 'सगन्धोदकां' प्रथमं गंधोदकवृष्टिं कृत्वा पश्चात् कुसुमवृष्टिमित्येवम्- अमुना प्रकारेण यथाशक्त्या श्रावकवर्गोऽपि तीर्थकराकारविचानि पुण्यार्थं पुष्पादिभिः पूजयतीति लुम्पकचक्षुषोऽञ्जन मितिगाथापञ्चकार्थः ।। ९०-९१-९२-९३ - ९४ ।। अथाञ्जनप्रक्षेपनिमित्तं शलाकामाह
Jain Educationa International
तेसिं वंदणपमुहं जिणवंदणसमफलति णो भिन्नं । तह जिणपडिमावंदणमंजणखेवे सिलागेसा ॥ ९५ ॥ 'तेषां त्रयाणां जिनप्रतिरूपकाणां वन्दनप्रमुखं जिनवन्दनसमफलं जिनवन्दनाद्यभिग्रहनिस्तारकं चेति प्रवचने प्रतीतं, नो भिन्नफलं, तथा जिनप्रतिमावन्दनम्, अञ्जनप्रक्षेपे एषा शलाकेति गाथार्थः ॥ ९५ ॥ अथ किं संपन्नमित्याह
एएणमंजणेणं नीरोअं चक्खु जस्स नो जायं। से कार्यबिंदुचक्खू उविक्खणिजं व दुस्सझं ॥ ९५ ॥ एतेनाञ्जनेन यस्य लुम्पकविशेषस्य चक्षुर्नीरोगं न जातं ' से' तस्य काचबिन्दु चक्षुरुपेक्षणीयमसाध्यत्वाद्, अथवा दुःसाध्यं - बहुप्रयाससाध्यं तद्विधिरपि लुम्पकमतनिराकरणविश्रामे वक्ष्यते इति गाथार्थः । । ९६ ।। अथ तीर्थतीर्थाभासयोरुपसंहारमाहएवं जुत्तिदिसाए सम्मं अम्भसिअ तित्थआभासं । मुणिऊण तित्थसरणं कुणंतु भवा हु भद्दट्ठा ॥९७॥ एवमुक्तप्रकारया युक्तिदिशया सम्यग् अभ्यस्य तीर्थाभासं कुपाक्षिकवर्ग ज्ञात्वा, परिहृत्येत्यर्थाद् ज्ञेयं, भव्यास्तीर्थशरणं कुर्वन्तु,
For Personal and Private Use Only
अंजनं तच्छलाका च
॥ ५८ ॥
www.jainelibrary.org