SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव कुपाक्षिकविभाग: चनपरीक्षा १विश्रामे ॥५६॥ स्तीर्थस्थापनाय समर्थ इति यो भाषते तेषां सोऽर्हन्, न चैतादृशस्तीर्थाभ्युपगतोऽर्हनिति भिन्न इति गाथार्थः ॥ ८६ ॥ अथ | सिद्धविषये उत्तरमाह-तेषां-कुपाक्षिकाणां सिद्धा अपि तदुपदेशाद्-विकल्पिततीर्थकरोपदेशादुपलब्धाः श्रद्धया भवन्ति, ते च तदुपदिष्टमार्गाराधनाजाता भिन्ना एव, तीर्थे तथाविधसिद्धानामश्रद्धानादेव, गौतमादिगणधरवर्गोपि निजमतिविकल्पितम्तीर्था|द्भिन्न एवेति गाथार्थः ।।८७॥ अथोक्तकुपाक्षिकेषु विवेकमाह| तेसुवि लुपगवजा पायं खलु कायबिंदुजुअनयणा । निम्मलनयणसमाणा दीसंति सुविजपरिवज्जा ॥८८॥ तेष्वपि-पौर्णिमीयकादिष्वपि लुम्पकवर्जाः प्रायः काचबिन्दुयुतनयनाः निर्मलनयनसमाना-निर्मललोचनैः सह समाना दृश्यन्ते, | परं सुवैद्यपरित्याज्याः, तादृग्रोगस्यासाध्यत्वात् , तथा लुम्पकवर्जा अमी अपि, यतस्ते प्रतिमां तु वयमप्यङ्गीकुर्मः, शेषभेदस्तु सामाचारीविशेषादकिश्चित्कर एव, तथा च यथाऽयं तपागणस्तथा वयमपीति धार्यमाश्रिताः साधूपदेशमपि न समीहन्ते, कथं | तेषां तत्प्रतीकारः?, तेन काचविन्दुरोगकल्पं तथा धाष्टयं तदीयश्रद्धानदृष्टावसाध्यं, नचैवं लुम्पकस्यापीत्यनन्तरं वक्ष्यमाणमिति | गाथार्थः ।।८८॥ अथ पृथक्कृतस्य लुम्पकस्य स्वरूपमाह-- लुंपकनयणातंकाणेगविहा तेण केइ सज्झावि । तेसुवि कोइ सुहंजणसज्झो से अंजणं एयं ॥८९ ॥ लुम्पकनयनातङ्का अनेकविधा-नानाप्रकारास्तेन केपि रोगविशेषाः साध्या अपि, तेष्वपि कोऽप्यञ्जनसाध्यः, 'से' तस्याञ्जनमेतद्-वक्ष्यमाणमिति गाथार्थः ।।८९॥ अथ गाथापंचकेनाञ्जनमाह-- समुसरणे चउरूवो तित्थयरो तत्थ तिण्णि रूवाई। जइ सम्मयाइं पडिमा निअमेणं सम्मया होइ॥१०॥ KARANILITARAKHAANIRTHRUMPUTRASANNADUINDIANRITERATURI NESHARINITIAS ॥॥५६॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy