________________
श्रीप्रवचनपरीक्षा १ विश्रामे
।। ५५ ।।
श्रीवीरेण ज्ञापित इत्यर्थः सूचितः, पूर्णिमातिथौ च कुपाक्षिकवर्गेण संकेतो निर्मापितः, मुग्धजन विप्रतारणबुद्ध्या नवीनः संकेतो विहितः, यथाssधुनिकै र्वणि जैरेकादश गणनीया इतिशब्दे पलायनं संकेतितं क्वचिदेकत्रिंशच्छब्देनानुचित, पञ्चत्रिंशच्छब्देनोचितं, | तथा नवनवतिपाटकशब्देनैकसंख्या संकेतिता, एवमष्टनवतिशब्देन द्विसंख्या, यावत्पश्चानुपूर्व्याऽङ्कानां न्यूनत्वे संख्याधिक्यं संकेतितं, तथा कुपाक्षिकैः स्वमतव्यवस्थापनाय पाक्षिकशब्देन पूर्णिमा यावत् खरतरेण "सावयधम्मो अ वुच्छिन्नो" (दीपा० ) इत्यत्र श्रावकधर्मः - प्रतिमास्वरूपो ग्राह्य इति विकल्पितं तच्च तदीयानां प्रमाणं, न पुनस्तीर्थस्य, ततो विलक्षणत्वादिति गाथार्थः॥ ८३ ॥ | अथात्मीयः शङ्कते -
णु वेसिं आयरियप्पमुद्दा पञ्चक्खतित्थआभासा । तित्थाउ हुंति भिन्ना कहण्णु अरिहंत सिद्धावि ! ॥ ८४ ॥ इअ चे बुच्चइ निअगा आयरिआ तेसि बंदणिज्जत्तं । जो पण्णवेइ पुरओ भवाणं तेसि सो अरिहा ||८५ || | सिद्धंतोवि समत्थो पुत्थय लिहिओऽवि तित्थठवणाए । पुरिसपरतंतरहिओ जो भासइ तेसि सो अरिहा ॥ ८६ ॥ सिद्धावि तदुवएसा उवलद्धा हुंति तेसि सद्धज्जा । एवं गोअममाई गणहरवग्गोऽवि विष्णेओ ॥ ८७॥ ननु भो अमीषामाचार्यादयो हि तीर्थाद्भिन्नास्तद्वदाभासरूपा अध्यक्षसिद्धाः, नु वितर्के, अर्हत्सिद्धावपि कथं भिन्ना इति पूर्व - पक्षाशङ्केति गाथार्थः ॥ ८४ ॥ अथोत्तरमाह - इति चेदुच्यते, ये निजका - आत्मीयाः कुपाक्षिकमुख्या मताकर्षकाः तेषां वन्दनीयत्वंवन्दनादियोग्यत्वं भव्यानां पुरस्तात् (यः) प्रज्ञापयति स तेषां कुपाक्षिकाणामर्हन्, तीर्थसम्मतस्त्वर्हन् कुपाक्षिका द्रष्टुमप्यकल्प्या इति ब्रुवाण इत्यनयोर्भेद इति गाथार्थः || ८५ || अथवा प्रकारान्तरेणोत्तरमाह – पुस्तकलिखितोऽपि पुरुषपरतन्त्ररहितः सिद्धान्त -
Jain Educationa International
For Personal and Private Use Only
संकेतभेदौ अर्हदादिपार्थवृत्तं
॥ ५५ ॥
www.jainelibrary.org.