________________
श्रीप्रववनपरीक्षा १ विश्रामे 1143 11
खरतराः, आञ्चलिकाः श्राद्धानां सामायिकादावञ्चलं - पल्लवं प्ररूपयन्तं तीर्थकरं, फलपूजादिनिषेधं कुर्वन्तमर्हन्तं सार्द्धपौर्णिभीयकाः, श्रुतदेवतास्तुतिप्रमुखं प्रतिषेधयन्तमागमिकाः, जिनप्रतिमानिषेधोपदेशकुशलं लुम्पाका जिनं लपन्ति, तीर्थार्द्ध-श्रावकश्राविकालक्षणमपि प्रमाणं वदन्तमर्हन्तं कडुकाः, 'बीजो' बीजाख्यो वर्णैरकारादिभिर्द्रव्यश्रुतहेतुभिरपि हीनः प्रायोऽतिमूर्खः प्रतिमां मुक्तत्वा लुम्पाकं सत्यं - लुम्पाकमते प्रतिमानङ्गीकारस्तदसत्यं, शेषं तु सत्यमेवेति वदन्तमर्हन्तम्, अणुमात्रमपि कर्म्मबन्धो यत्रैवंविधं धर्ममभाषमाणं पाशोऽर्हन्तं वदतीति दशानामपि निजनिजविकल्पारूढास्तीर्थकृतो भिन्नभिन्ना एवेति गाथापञ्चकार्थः ॥ ७१-७२७३-७४-७५ ॥ अथ गाथापञ्चकोपसंहारमाह
एवं सबकुवखा पडिवण्णा भिण्णभिण्णतित्थयरं । परमत्था सिवभूइप्पमुहे ते तारिसे नने ॥७६॥ सिद्धविय तम्मग्गाराहणपुद्दा य एवमवि सेसा । तित्थभिहाणाभासा भासाभासा य किरियासु ||७७|| एवं प्रागुक्ताः सर्वे कुपाक्षिकाः भिन्नभिन्नतीर्थकरं प्रतिपन्नाः, ते च तीर्थकराः 'परमार्थात् ' वस्तुगत्या शिवभूतिप्रमुखा एव, | नान्ये, तथाविधप्ररूपणाविशिष्टा न तीर्थसम्मता ऋषभादयः, विशेषणभेदे च विशिष्टस्यावश्यं भेदाद्, एकनामवाच्याश्चानेकेऽपि पदार्था भवन्ति, अतो नाम्नामनेकार्थताऽपि तत्र विशेषप्रतिपत्तिर्विशेषणैरेव स्यात्, यथा 'गोपाङ्गनासङ्गनिबद्धरङ्गो, गीर्वाणगेयाङ्गगुणो | जिनोऽव्यादि 'त्यत्राद्यपदवाच्यार्थविशेषणेन जिनशब्देन नारायण एवावगम्यते, न तु जैनाभिमतोऽर्हन्, तथा 'पायात्सदा नः पुरुषोत्तमो यो, जितेन्द्रियोऽनङ्गकुरङ्गहेतु' रित्यत्रोत्तरपदे वाच्यार्थविशेषणान्वितेन पुरुषोत्तमशब्देनाईनेव, न तु नारायणः, एवं सर्वत्रापि नाम्नामभेदेऽपि विशेषण मेदाद्भेदः, अन्यथा जगद्व्यवस्थाभङ्गः स्यात्, न हि भूपतिनामा रोरः कश्चित् तन्नामवतो राज्ञो राज्य
Jain Educationa International
For Personal and Private Use Only
जिनसिद्धादीनामाभासता
॥ ५१ ॥ .
www.jainelibrary.org.