________________
श्रीप्रवचनपरीक्षा १ विश्रामे
॥ ४९ ॥
| डगर्थवान् सिद्धान्तस्तव केन गुरुणा पाठित इत्युक्ते विकल्पितार्थप्ररूपकं देवदत्तादिना कल्पितं निजगुरुं वक्तुमक्षम एव स्यादिति जगत्थितिः, एवं तन्मूले चाव्यक्ते तदपत्यान्यप्यव्यक्तान्येव, अत एवागमे निह्नवा अव्यक्ता इति भणितं प्राक् प्रदर्शितमितिगाथार्थः |||६६ || अथ पुस्तकवादिनां कस्तीर्थकर इत्याह-
उस भाईजिणणामारोपेणाणेगहावि एगजणो । निअनिअमयाइभूओ पुत्थयसिद्धंततित्थयरो ||६७॥ पुस्तक सिद्धान्तस्य तीर्थकरो निजनिजमताकर्षकः शिवभूतिचन्द्रप्रभादिरेकजनः- एक एव जन एकजनः अनेकधा - अनेकस्व| रूपः, केन ? - ऋषभादिजिननाम्ना समारोपेण 'अतस्मिंस्तदध्यवसाय आरोप' इति वचनात् शिवभूत्यादावेकस्मिन्नेवानेकेषां तीर्थकृतामुपलक्षणाद् गणधरादीनां च नाम्नामारोपः कृतः तेन हेतुभूतेनेति गाथार्थः ॥ ६७॥ अथ नाम्नामारोपस्तेन किं जातमित्याहते तित्थाभासेतित्थयरो तित्थतित्थकरनामा | सङ्घप्पयारपावो भिन्नो भिन्नुत्ति विष्णेओ ||३८|| येन कारणेन ऋषभादिजिननाम्नामारोपस्तेनैव कारणेन तीर्थाभासे- कुपाक्षिकवर्गे तीर्थकरस्तीर्थतीर्थकरनामा भवति, तीर्थे यस्तीर्थकरस्तस्यैव नाम यस्य स तीर्थतीर्थकरनामेत्यर्थः, यत एव नाम्नामारोपः कृतः अत एव पृष्टाः सन्तो देवोऽर्हन्नित्यादि भाषते, तथा चारोपितनाम्ना कुपाक्षिकाभिमततीर्थकृत्कीदृशः १ - 'सर्वप्रकारपापः ' सर्वात्मना पापभूत इत्यर्थः, स च प्रति कुपाक्षिकं मिन्न एवेतिकृत्वा भिन्नो भिन्नो बोध्यः, यथा दिगम्बराणां शिवभूतिः पौर्णिमीयकानां चन्द्रप्रभाचार्य इत्यादिरितिगाथार्थः ॥ ६८ ॥ नन्वेवमारोपः कथं भवतीति पराशङ्कामपाकरोति—
सवेहिं सदेहिं सङ्घपयत्थावि हुंति अहिलप्पा । आरोवेण जहिच्छिअसंकेओ जेणमणिवारो ।। ६९ ।।
Jain Education International
For Personal and Private Use Only
जिनादीनामारोपः
॥ ४९ ॥
www.jainelibrary.org