________________
अव्यक्तसिद्धान्तता
श्रीप्रवचनपरीक्षा १विश्रामे ॥४८॥
THAPARITAMATHSRPURIUEIPRITAMARHAALIRAMAILOPOIRALA
सूरिपरम्परारहितः पुस्तकलिखितश्च सिद्धान्तः त्रयाणामागमानां केन नाम्ना कीदृशः?, किमात्मागम उतानन्तरागमः पर- म्परागमो वेति परस्योदीरणेति गाथार्थः ॥६४॥ अथैवं पृष्टः परः कीदृग् स्यादित्याह
एवं खलु पुच्छिओ सो वेसातणउच्च जणयममुणतो। कोवि अहोहि अवत्तं संणेई एलम्उच्च ॥६५॥ एवमनन्तरोक्तप्रकारेण, खलुरवधारणे, पृष्टः सन् स कुपाक्षिको जनकमजानन् 'वेश्यातनुज इव' पण्याङ्गनापुत्रवत् कोऽपि च 'होही ति भविष्यतीत्यव्यक्तं सिद्धान्तं संज्ञयति, किंवद् ?-एडमूकवद्, अयं भावः- यथा एडमूकः केनचित् कथश्चित् संज्ञाविशेषेण पृष्टः सन् वक्तुमशक्तः सन् करादिना संज्ञां करोति, परं तथा संज्ञां करोति यथाऽन्येषां सम्यग्वस्तुपरिज्ञानं भवति, अयं । तु सिद्धान्तमव्यक्तमेव संज्ञयति, यथा वेश्यापुत्रो जनकं ब्रुवाणो हि कोऽपीत्यव्यक्त भाषते, दृष्टान्तद्वयन एडमूकवेश्यातनूजकल्पः | कुपाक्षिकः सिद्धान्तवादी प्रदर्शितः, आस्तां कुपाक्षिकस्तथा आचारहीनोऽपि ब्रुवाणस्तथैव भवति, यदागमः-"दुबसुमुणी अणाणाए तुच्छए गिलायइ वत्तए"त्ति श्रीआचारांगे लोकवि० (उ०६ सू-१०१) एतट्टीकादेशो यथा-क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायति वक्तुं, ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितु"मित्यादि आ०, इति गाथार्थः ॥३५।। अथैवमागममव्यक्तं ब्रुवाणस्य किं स्यादित्याहजह आगमो अवत्तो विगप्पिअत्थो तहेव तम्मूलं । तित्थयरोवि अवत्तो तं तयवच्चाइ अवत्ता ॥६६॥
कुपाक्षिकाणां विकल्पितार्थ:-निजनिजमतानुसारेण विकल्पितोऽर्थों यस्यैवंविध आगमो यथाऽव्यक्तः, विकल्पितार्थों हि सिद्धान्तो जारगर्भ इव सज्जनपर्षद्यव्यक्त एव स्यादित्यर्थः, तथा तन्मूलं तीर्थकरोऽप्यव्यक्त एव, यथा केनचित्पृष्टं ननु भोः एता
atlaritinARROTHeatmealionllite
इच्छापा ग्लायति वक्तुं, ज्ञानसमा
५॥ अथैवमागममव्यक्तं Ma अवत्तो तं तयवचाइ
MOREml
॥४८॥
Iain Education inte
For Personal and Private Use Only
www.jainelibrary.org