SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा १ विश्रामे ॥ ४७ ॥ व्यावहारिक कुलपतितो- व्यावहारिककुल क्रमायातः, उपलक्षणात् राजकुलक्रमायातोऽपि ग्राह्यः, आचारः - प्रवृत्तिनिवृत्तिरूपः | गृहोपस्करः- स्त्रीप्रमुखाणां नानाभरणवस्त्रादीनि शयनासनभोजनभाजनादीनि च यावत् स्त्रीपुत्रपुत्र्यादयश्च गोमहिष्यादयश्च सक| लोsपि किं लेख्यके लिखितो लभ्यते ?, अपितु न लभ्यते, तर्हि सुरिकुलपतित आचारः कथं पुस्तके लिखितः संभवेत् , न च | राजकुले लेख्यकं न संभवतीति शङ्कनीयमिष्टापत्तेः, नहि राजकुलाचारादि लिखितानुसारेणैव प्रवर्त्तते, किं तु परम्परायातमेव, | एवं प्रवचनेऽपि बोध्यं यत्तु किञ्चिल्लिखितं दृश्यते तदपि परम्परागताचारस्यैकदेशो बोध्यः, तेन केवललिखनानुसारेण प्रवृत्तिभाषणमभाषणमेव, एवं सत्यपि यः कश्चिदिभ्यपुत्रो लेख्यकं दृष्ट्वा यदेव लेख्यके लिखितं तदेव स्वकीयं, शेषं तु नात्मीयमिति | बुद्ध्या गृहान्निष्काश्य परित्यजन् केन कीदृशो भण्यते ?, तथा पुस्तकवादिनोऽपि केवलसूत्रवादिनो वा बोध्या इति गाथार्थः ॥ ६२ ॥ अथ सिद्धान्तवादिनमात्मानं ख्यापयन् महामृषाभाष्येवेति ज्ञापनाय प्रथमं सिद्धान्तखरूपमाह Jain Educationa International अत्तागमपासाओ सुणिओ बीओ अणंतरागमओ । तत्तो सवणपरंपरसमागओ तइअ आगमओ ॥ ६३ ॥ आत्मागमपार्श्वात् 'तात्स्थ्यात् तद्व्यपदेश' इति न्यायादात्मागमवतः सकाशात् श्रुतो द्वितीयोऽनन्तरागमो भवति, 'ततो' द्वितीयागमपार्श्वात् श्रवणपरम्परासमागतस्तृतीय आगमकः, परम्परागमक इत्यर्थः, स च द्वितीयागमसकाशात् श्रवणसमुत्थोऽपि पुरुषपारम्पर्येण तीर्थपर्यवसायीति सिद्धान्तक्रमः, न पुनः प्रथमाभावे द्वितीयो द्वितीयाभावे च तृतीयो भवतीति गाथार्थः ॥ ६३ ॥ अथैवं क्रमसिद्धे सिद्धान्ते सिद्धान्तवादी कथं प्रश्नविषयीकार्य इति दर्शयति सूरिपरंपररहिओ पुत्थय लिहिओ अ जो उ सिद्धंतो । तिन्ह खलु आगमाणं केरिसओ केण नामेणं १ ॥६४॥ For Personal and Private Use Only कुलाचारीऽलिखितः सिद्धान्तस्वरूपं ॥ ४७ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy