SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव चनपरीक्षा १ विश्रामे ॥ ४६ ॥ गाथासु वक्ष्यते, तथा 'दशविधसामाचारी' 'इच्छामिच्छेत्यादिदशप्रकारा गुरुशिष्यसंबन्धे सत्येव संभवति, तथा पञ्च व्यवहाराः| आगमश्रुताज्ञाधारणाजीतलक्षणा न संभवन्ति, तत्रापि श्रुतजीतौ केवल गुर्वायत्तावेव, कथं पुस्तकायत्ताविति तथाऽयं वाचना| योग्योऽयं च नेति वाचनायोग्यायोग्य विचारो न संभवति, पुस्तकस्य तत्रासामर्थ्यात्, न हि पुस्तकं योग्यमयोग्यं च विवेचयितुं | शक्नोति, तथा वाचनायां विधिः- उद्देशसमुद्देशादिलक्षणो गुरुक्रमायातो न पुस्तकसाध्यः, तथा छेदोपस्थापनीयं चारित्रं गुरुमन्तरेण न संभवत्येव, गुरुणैव सामायिकोच्छेदपूर्वकं तस्यारोप्यमाणत्वाद्, आदिशब्दात् सामायिकादीनामपि यथासंभवमायोज्यं, तथा | ज्ञानादीनामाराधनविधयोऽपि योगाद्यनुष्ठानपूर्वकम ध्ययनाध्यापनादिलक्षणाः पुस्तकदृष्टीनां 'न हु' नैव संभवन्तीति क्रिया सर्वत्रापि संबन्धनीया, विस्तरजिज्ञासुना तु मत्कृत पर्युषणादशशतकटीकाऽवलोकनीयेति गाथायुग्मार्थः ||६० - ६१ || अथ पुस्तकवादिनो यदेव पुस्तके लिखितं तदेव प्रमाणं, न पुनः परम्परायातमपीति वदन्ति, तदसम्यक्, यतः क्वापि पुस्तकेऽपीत्थं लिखितं नास्ति यत्पुस्तक लिखितादन्यदसम्यग् यद्वा पुस्तकं दृष्ट्वा ये धर्मं प्ररूपयिष्यंति ते सम्यक्तयाऽवगन्तव्या इत्यपि कापि पुस्तके लिखितं यद्वोच्छिन्नं तीर्थममुकादाचार्यात् प्रकटीभविष्यतीत्यपि क्वापि नास्ति, कथमेते धाष्टर्थमवलम्ब्य पुस्तकं शरणं प्रपद्यन्ते १, एवं 'पिता मे कुमारब्रह्मचारी' ति न्यायमापन्नानामध्यक्षसिद्धमेव मृषाभाषित्वं यतो वयं पुस्तकलिखितप्रमाणवादिन इत्येवं वाचाटा अपि पुस्तकालिखितमप्यनन्तरोक्तं स्वीकुर्वन्ति, परिहरन्ति च पुस्तकलिखितमपि दशविधसामाचारीपञ्श्चव्यवहारादिकमच्छिन्नतीर्थं दुष्प्रसभं यावदित्यादि च । एवं सत्यपि पुस्तकवादित्वे लौकिकदृष्टान्तमाह ववहारिअकुलवडिओ आयारो घरउवकूखरो सयलो । किं लेकूखगंमि लिहिओ' ता कह सूरीण कुलवडिओ १ ॥६२॥ Jain Education International For Personal and Private Use Only पुस्तकवा दिनां सामाचार्याद्यभावः ॥ ४६ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy