________________
MINIA
श्रीप्रवचनपरीक्षा १विश्राम ॥४५॥
पुस्तकशर
णानां सौधर्मानपत्यता
'तेष्वपि' दिगम्बरादिष्वपि पूर्णिमाप्रमुखाः 'पुस्तकशरणाः' पुस्तकमेव शरणं येषां ते तथा, परम्पराशून्याः, किमसाक पर|म्परया प्रयोजनं ?, पुस्तकलिखितसिद्धान्तं शरणीकृत्य प्रवर्तामहे इत्यसमीक्ष्यभाषिणः,तेषां प्रासङ्गिक साधारणस्वरूपं भणाम इति गाथार्थः ॥५८॥ अथ ते तीर्थमध्यवर्त्तिनो न भवन्तीत्याह
सोहम्मावच्चिजा अच्छिन्ना जाव दुप्पसहसूरी। तेहिंतो से भिन्ना जं ते पुत्थाउ नो जाया ॥५९॥ सौधर्मापत्यान्यच्छिन्नानि यावद्दुष्प्रसभसूरिः,व्युच्छिन्ने च तीर्थे तीर्थकरमन्तरेण केवलिनाऽपि तीर्थ प्रकटीकर्तुमशक्यमिति प्राक् | प्रपश्चितं, पूर्णिमादयस्तु श्रीसुधर्मापत्येभ्यो भिन्ना एव, तत्र हेतुमाह-'जं ते'त्ति यस्मात् ते श्रीसुधर्मापत्यानि न पुस्तकाजाताः, | यो यथोत्पद्यते तजातीयस्तेनैव विधिना, यथा गर्भजाद्गर्भजोत्पत्तिर्न पुनः संमृच्छिमादपि, या तु गर्भजात् संमूच्छिमोत्पत्तिः सा च न तदपत्यव्यवहारहेतुः, अपत्योत्पत्तिप्रकाराद्भिन्नप्रकारेणैवोत्पत्तेः, न हि मातृशरीरोत्पन्नाऽपि षट्पदी भगिनीव्यवहारविषयः, भगिन्युत्पत्तिप्रकाराद्भिन्नप्रकारेणैवोत्पत्तेः, एवं पूर्णिमादिष्वपि योज्यं, तदेवं तीर्थे समुत्पन्ना अपि पौणिमीयकादयो न साधुवत्समुत्पन्नाः, किंतु पुस्तकमूलकत्वेन मिन्नप्रकारेणोत्पन्नाः, यथा मातुः शरीरे षट्पदीति गाथार्थः ॥५९॥ अथ पुस्तकशरणानां यन्न संभवति तदर्शनाय गाथाद्वयेन दिशमाहपंच परमेहि दसविह सामायारी अ पंच ववहारा । वायणजुग्गाजुग्गा जुग्गाणवि वायणमि विही ॥६०॥
छओवट्ठावणिअप्पमुहुच्चाराइ णाणमाईणं । आराहणाइविहओ पुत्थयदिट्ठीण नहु हुंति ॥६१॥ पुस्तकवादिनां पञ्च परमेष्ठिनस्तीर्थाभिमता न संभवन्ति, तन्मते चार्हदादीनां भिन्नत्वादिति, 'पंच खलु तित्थयर'मित्यादि
।।।४५॥
Jan Educationa internatonal
For Person and Private Use Only
www.janebayorg