________________
श्रीप्रवचनपरीक्षा १ विश्रामे
॥ ४४ ॥
Jain Educationa Inte
छिन्नुग्भाविअतित्था तित्थाभासाइठवणमनिपुणा । पासंता पास्ता पासे अव्वा पयत्तेणं ॥५७॥
छिन्नं- त्रुटितमितिबुद्धिपूर्वकमुद्भाचितं प्रादुष्कृतं तीर्थ यैस्ते छिभोद्भाविततीर्थाः, न च दिगम्बरस्य छिन्नत्वबुद्धिर्नासीदिति शङ्कनीयं, गुरुणोक्तं-सम्प्रति जिनकल्पो व्युच्छिन्नः, तत् श्रुत्वा मयि विद्यमाने कथं व्युच्छिन्नो भण्यते इति भणित्वा निर्गतः, अहं व्युच्छिन्नमपि | जिनकल्पं प्रकटीकरोमीतिबुद्ध्या जिनकल्पात्मकमेव तीर्थं विकल्पितमिति शिवभूतेरपि तथास्वभावानपायात्, किंलक्षणास्ते :'तीर्थाभासस्थापनमतिनिपुणाः' तीर्थाभासस्थापने या मतिस्तया मिपुणाः, असतोऽपि वस्तुनः सद्भूतवस्तुसमताबुद्धिजननसामर्थ्य | निपुणत्वमन्तरेण न भवतीति, यदुक्तं - "यथास्थितं वस्तु दिशन्नधीश!, न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृङ्गाण्युपपादयद्भयो, नमः | परेभ्यो नय ( नव) पण्डितेभ्यः ॥ १ ॥ इति द्वात्रिंशिकायां । नचैतद्वर्णनं लाक्षणिकमिति वाच्यम्, अत्रापि तथैवाभ्युपगमात्, ते च के:- पाशान्ताः - दिगम्बरादिपाशपर्यन्ताः, प्रतिविश्रामं व्यक्त्या वक्ष्यमाणाः, किंलक्षणा ः १ - 'प्रास्वन्तः' प्रकर्षेणासूनां प्राणानां प्रकृते ज्ञानादिभावप्राणानामन्तो- विनाशो येषां ते तथा, उन्मार्गदेशनादिना क्लिष्टकर्मोपार्जनेनानन्तकाललभ्यबोधेः संभवात्, यद्वा प्रकर्षेणासूनां - भावप्राणानां तदुपदेशवर्त्तिनां तदनुकूलप्रवृत्तिमतां वा अन्तो येभ्यस्ते तथा, अन्येषामपि दुर्लभबोधिहेतवः, स्वयं नष्टाः परान्ना| शयन्तीत्यर्थः, अत एव किंलक्षणा: १ - प्रयत्नेन दृश्याः- दर्शनीयाः, चर्चादिमहत्प्रयोजनविशेषे तैः सह वचनप्रवृत्तिः कर्त्तव्या, | नान्यथा, प्रवचने 'न हु लग्भा तारिसा दट्टुमित्यादिना तद्दर्शनस्य पातकहेतुत्वेन भणितत्वात्, तच्च प्राग्दर्शितमिति गाथार्थः ॥५७॥ अथ पुनरपि युक्तिदायहेतवे प्रासङ्गिकमाह---
सुविपुण्णिमपमुहा पुत्थयसरणा परंपरासुन्ना । साधारणं सरूवं तेसिं पासंगिअं भणिमो ||१८||
For Personal and Private Use Only
परेषां तीर्थाभासता
॥ ४४ ॥
www.jainelibrary.org