________________
HE
श्रीप्रवचनपरीक्षा १विश्रामे ॥४३॥
परम्पराशरणतातीर्थस्य
एवं फलवं सुत्तं तित्थयरपवहिअंमि तित्थंमि । तित्थं पुण अच्छिन्नं वीरस्स य जाव दुप्पसहो॥५५॥
'एवम् उक्तदृष्टान्तेन तीर्थसूत्रं फलवद्, दृश्यते इति गम्यं, तत्रोक्तसामग्या विद्यमानत्वात , तीर्थ च कियत्कालं भवतीत्याह-तीर्थ पुनरच्छिन्नं यावदुष्प्रसभसूरिस्तावदनवरतं वर्तते, कस्य ?-वीरस्य, यदागमः-"जंबूदीवे णं भंते! दीवे भारहे वासे | हमीसे ओसप्पिणीए देवाणुप्पिआणं केवइअं कालं तित्थं अणुसज्जिस्सइ ?, गोअमा! जंबूदीवे दीवे भारहे वासे इमीसे ओसप्पिणीए मम इक्कवीसं वाससहस्साई तित्थं अणुसजिस्सई"त्ति श्रीभग० श० २० उ०८ (सू. ६८०) इति गाथार्थः॥५५॥ अथ परम्परा-| शरणं सूत्रमिति द्वितीयं विकल्पं सम्यगितिकृत्वा समर्थयन्नाह
तेण परंपरसरणं सुत्तं तित्थस्स सम्मयं णेअं। सेसा मयगोपासे भमंति पयपाणआसाए॥५६॥ 'तेन' प्रागुक्तयुक्तिप्रकारेण परम्पराशरणं सूत्रं भवति, परम्परा च तीर्थ, तच्च पुरुषपरिपाट्याच्छिन्नमितिकृत्वा पुस्तकशरणं न भवति, पुस्तकलिखनकालात् पूर्व सूत्रस्याभावापचया लिखनमप्युच्छिन्नसंकथं कथं पुस्तकशरणता सूत्रस्येति कुपाक्षिकाणामनिष्टं, यतः परम्पराशरणं तत एव सम्प्रत्यागमः परम्पराविशिष्टस्तृतीय एव, यदागमः-"आगमे त्रिविहे पं००-अत्तागमे अणंतरागमे परंपरागमे"त्ति श्री अनु० (स. १४४ व. २१९) तत्राद्यौ गणधरशिष्यान्तौ, तृतीयस्तु तीर्थ पर्यवसायीति, तदेव सूत्र तीर्थसम्मतं ज्ञेयं, शेषाः-तीर्थवाद्या वक्ष्यमाणाः कुपाक्षिकाः पयःपानाशया मृतगोः पार्श्वे भ्रमन्ति, उक्त लक्षणयोग्यताया अभावाद्, आस्तां पयःपानाशापूर्तिः दूरे,लोकनिंदास्पदमेव भवन्तीतिगाथार्थः ॥५६॥ अथ वक्ष्यमाणयुक्त्या पाक्षिकाभ्युपगतं सूत्रमेव न भवति, किंतु सूत्राभास एव, सच तन्मूलस्याभासत्वे सति सिद्धयतीति तन्मूलस्याभासत्वमाह
Jan Education Interno
For Personal and Private Use Only
www.jainelibrary.org