________________
श्रीप्रवपनपरीक्षा १विधामे ॥४१॥
कुशलाय. तत्वेधेनुदृष्टान्त:
th IIHINMAHILARIANRAINITION
घेणू वावि सदुद्धा दोहणकिरिआइकुसलमायत्ता। दुद्धपया विवरीआ विवरीअपया उदाहरणं ॥५३॥ 'वा' अथवा 'धेनुरपि' गौरपि 'दोहनक्रियादिकुशलायसा' दोहनस्य क्रिया,आदिशब्दात पिण्डपयोदानसुस्थानरक्षणादिकं ग्राह्य, तत्र कुशलो-निपुणः मकारोऽलाक्षणिकस्तस्यायत्ता-वशगा 'दुग्धप्रदा' दुग्धदायिनी स्याद्, विपरीता दोहनक्रियाद्यकुशलायचा 'विपरीतप्रदा' दुग्धदानापेक्षया विपरीतं फलं प्रददातीत्यत्रोदाहरणमित्यक्षरार्थः।। भावार्थस्त्वयं-यस्तु पिण्डदानादिकुशलो दोह|नक्रियादिकुशलश्च स गोः सकाशात् दुग्धमवामोति, तत्राकुशलच गोःशरीरे दुग्धमस्तीति सामान्येन दुग्धज्ञानवान् दुग्धावाप्तिमिच्छन् | | यत्र क्वाप्यङ्गे करस्पर्शनकरणेन लकुटादिना हननेन यत्र क्वाप्यने अस्त्रादिना छिद्रकरणेन वा केवलं मूत्ररुधिरादिकमेवावामोति, सर्वथा क्रियारहितश्च गोघातपातकभाग् स्यात, पिण्डादिदानक्रियायुक्तोऽपि दोहनादिक्रियाशून्यः स्वभावसिद्धच्छगणमूत्रादिलाममाम् । अत्र सार्थवाहराज्ञोदृष्टान्तः प्रतीत एव, तथापि दिग्दर्शनं त्वेवमिह-कश्चित्सार्थवाहोऽनेकपण्यभृद् धेनुविरहिते द्वीपे | वाणिज्यनिमित्तं जिगमिषुः सधेनुकः समुद्रमुतीर्य जिगमिषिते द्वीपे प्राप्तः, तत्र संतुष्टयर्थ राज्ञे रूप्यकच्चोलके पायसं प्रक्षिप्य | प्रत्यहं प्राभृतीकरोति, अस्मदीयदेशवृक्षरस इति राज्ञा पृष्टो भणति, एकदा च कृतकृत्यो राज्ञो मुत्कलवचनेच्छया राजानं भणितवान्-स्वदेशं राजाज्ञया जिगमिषुरित्युक्ते राजोवाच-पायसरसमस्मभ्यं को दास्यति !, तदनु राज्ञोऽनुरोधेन तेन सा गौर्दत्ता, उक्तं च-एतदीयो रसो मया दीयमान आसीदित्युक्त्वा स सार्थवाहः स्वदेशं प्रस्थितः, राज्ञा च सा गौश्चित्रशालायामनेकविधखर्जूर-17 द्राक्षेक्षुरसादिखाद्यपानादिविधिना पोष्यमाणा गोमयमत्रादिकरणावसरे यदा पुच्छमृर्वीकरोति तदानीं राजपुरुषाः रूप्यकचोलकादिकं पात्रं विभ्रति, तदानीं वर्णास्वादादिना गोमयादेपरीत्यं दृष्ट्वा वञ्चितः खलु तेन पापात्मनाऽहमपीति रुष्टः सन् समुद्र
A
HWAND
MAHATANTRam
॥४१॥
Jan Education Interno
For Personal and Private Use Only
www.jainelibrary.org