SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १विश्रामे ॥४ ॥ स्वस्तकशरणनिरास: खरूपमापनः पुरुषोऽपि 'योग्यतायुक्त दायकयोग्यतायुक्तोददाति, ग्राहकयोग्यतायुक्तश्च गृहूणातीति, पुरुष इत्यत्रैकवचनं दायकेन| युक्तो ग्राहको ग्राहकेण युक्तो दायको वेत्येवं विग्रहेण बोध्यम् ,अत एव "पासगस्स नत्थि उवएसो"त्ति (आचा.८-८२) प्रवचनं, तस्य योग्यताया अभावाद, अथोभयोर्योग्यतायां दृष्टान्तमाह-'तेने त्यादि,तेन कारणेन येन योग्यतामापनस्तेनैव त्रिपदीमात्रात् 'उपन्नेह वा विगमेइ वा धुवेइ वेति मातृकापदमात्रात् द्वादशाऽङ्ग्या रचना,तीर्थकृद्गणधरयोईयोरपिदायकग्राहकयोयोग्यतामापन्नत्वाद् , | आस्तां द्वयोः, एकतरस्याप्यमावे त्रिपदीन फलवती,त्रिपदीदाने योग्यतामापन्नोऽपि भगवान् वीरः श्रीगौतमायेकादशगणभृदतिरिक्तेषु न द्वादशाङ्गीरचनाहेतुः, न च ग्राहकयोग्यतामापन्ना अपि गणभृतो भगवन्तमन्तरेण त्रिपद्यवाप्तावपि तथासामर्थ्यभाजः, अत एव || 'संजोगसिद्धीइ फलं वयंति' (आव.१०२) प्रवचनवचनम् , अत एव च विद्यमानापि त्रिपदी नेदानी फलवती, द्वयोरपि दायकग्राहकयोर्योग्यताया अभावात किंच-त्रिपदीदृष्टान्तेन केवलं सूत्रं न फलवदित्यपि कुपाक्षिकस्तिरस्करणीयः,केवलसूत्रवादी प्रवचने मिथ्या गपि भणितः, यदागमः-"अपरिच्छिअसुअनिहसस्स केवलमभिन्नसुत्तचारिस्स। सव्वुजमेणवि कयं अण्णाणतवे बहुं पडइ ॥१॥ (४१५) इति श्रीउपदेशमालायामिति गाथार्थः॥५१॥ अथ योग्यतायामयोग्यतायां चोदाहरणमाह वजंपि कजजणयं सकपयत्तेण जुग्गयाजुत्ते।आगासखंडकरणे असमत्थं सक्कबलमुत्तं ॥५२॥ वज्रमपि कार्यजनकं शक्रप्रयत्नेन योग्यतायुक्ते वस्तुनि स्यात् , आकाशखण्डकरणे शक्रेण निजबलमुक्तमप्यसमर्थम् , आकाशस्य खण्डशो भवनायोग्यत्वाद् , एवं पुरुषायत्तमपि सूत्रंदायकग्राहकयोग्यतायामेव फलवत् ,नान्यथेति वज्रदृष्टान्त इति गाथार्थः ॥५२॥ अथ पुनरपि सर्वप्रतीतं दृष्टान्तरान्तरमाह ॥४०॥ MAHIRAINA In Education Intematon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy