________________
श्रीप्रवचनपरीक्षा १विश्रामे
सूत्रपुस्तकशरणनिरास:
॥३९॥
HARSHANTIPilem ailyHARITHILITAL SALAIJHIMRAPARI
a
यामः, येन युक्तिप्रकारेण दीपरूपेण-प्रदीपकल्पेन तीर्थातीर्थस्वरूपं स्फुटं स्यात् ,कस्य?-आस्तां सूक्ष्मदृग् , स्थूलमतेरपि, तेन कारणेन कुत्रचिदंशे पुनरपि भणनमपि-वारं वारं कथनमपि दृश्यते 'इह' अधिकारे अस्मिन् प्रकरणे वा,न पुनरुक्तदोषश्चिन्तनीयः,चोऽप्यर्थे, न चिन्तनीयोऽपि, भाषणं तु दूरे इत्यपिशब्दार्थः, एवं कुतो, यतः सोऽभ्यासः, स च पुनः पुनर्भणनेनैव स्यादितिगाथात्रयार्थः ॥४६-४७-४८॥ त्रिभिर्विशेषकं । अथ प्रथमं कुपक्षमात्रखरूपमाह| प्रायं कुपक्खपक्खो उ सुत्तसरणो हविज वयणेणं । सुत्तं पुत्थयसरणं नणु किंच परंपरासरणं ॥४९॥ ___'प्रायो' बाहुल्येन कुपक्षपक्षस्तु वचनेन-वचोमात्रेण, नतु मनसापि, सूत्रशरणो भवेत, असाकं सूत्रमेव प्रमाणं, न वृश्यादिक|मपीत्यादिवचोमात्रेण सूत्रशरण इत्यर्थः, तत्रैव प्रष्टव्यं-ननु भोः सूत्रं पुस्तकशरणं किंवा परम्पराशरणमिति विकल्पद्वयी, तत्र | पुस्तकमेव शरणम्-आश्रयो यस्य तत्पुस्तकशरणं, परम्परा-अच्छिन्नपुरुषप्रवाहः सैव शरणं यस्येति परम्पराशरणमिति, कुपाक्षिका-I कूतमेव प्रश्नद्वारा विकल्पितमितिगाथार्थः ॥४९॥ अथ प्रथमविकल्पाकृतं दूषयितुमाह
पुत्थयसरणं सुत्तं फलवं न हु होइ केवलं किंतु । पुरिसायत्तं पुरिसो पयत्तवंतोऽवि विहिविण्णू ॥५०॥
केवलं पुस्तकशरणं सूत्रं फलवन्न भवेत् ,किंतु?-'पुरुषायत्तं' पुरुषपरतन्त्रं, पुरुषोऽपि न यः कश्चित् , किंतु,प्रयत्नवानपि विधिज्ञः, सूत्रस्य ग्रहणे दाने च विधि जानातीति विधिज्ञ इति गाथार्थः ॥५०॥ अथ विधिज्ञोऽपि कीदृक् स्यादित्याह
सोऽवि अदायगगाहगभावापन्नोवि जुग्गयाजुत्तो। तेणं तिपईमित्ता दुवालसंगीइ रयणावि॥५१॥ 'सोऽपि च' विधिज्ञोऽपि च दायकग्राहकभावापन्नः,श्रुतज्ञानं हि द्वाभ्यामेव साध्य,तत्रको दायकोऽपरो ग्राहकश्चेति, एवंरूपेण
malitimelimuslem P AHIRANIMUMFARMIRIN
||३९॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org