SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १विश्रामे सूत्रपुस्तकशरणनिरास: ॥३९॥ HARSHANTIPilem ailyHARITHILITAL SALAIJHIMRAPARI a यामः, येन युक्तिप्रकारेण दीपरूपेण-प्रदीपकल्पेन तीर्थातीर्थस्वरूपं स्फुटं स्यात् ,कस्य?-आस्तां सूक्ष्मदृग् , स्थूलमतेरपि, तेन कारणेन कुत्रचिदंशे पुनरपि भणनमपि-वारं वारं कथनमपि दृश्यते 'इह' अधिकारे अस्मिन् प्रकरणे वा,न पुनरुक्तदोषश्चिन्तनीयः,चोऽप्यर्थे, न चिन्तनीयोऽपि, भाषणं तु दूरे इत्यपिशब्दार्थः, एवं कुतो, यतः सोऽभ्यासः, स च पुनः पुनर्भणनेनैव स्यादितिगाथात्रयार्थः ॥४६-४७-४८॥ त्रिभिर्विशेषकं । अथ प्रथमं कुपक्षमात्रखरूपमाह| प्रायं कुपक्खपक्खो उ सुत्तसरणो हविज वयणेणं । सुत्तं पुत्थयसरणं नणु किंच परंपरासरणं ॥४९॥ ___'प्रायो' बाहुल्येन कुपक्षपक्षस्तु वचनेन-वचोमात्रेण, नतु मनसापि, सूत्रशरणो भवेत, असाकं सूत्रमेव प्रमाणं, न वृश्यादिक|मपीत्यादिवचोमात्रेण सूत्रशरण इत्यर्थः, तत्रैव प्रष्टव्यं-ननु भोः सूत्रं पुस्तकशरणं किंवा परम्पराशरणमिति विकल्पद्वयी, तत्र | पुस्तकमेव शरणम्-आश्रयो यस्य तत्पुस्तकशरणं, परम्परा-अच्छिन्नपुरुषप्रवाहः सैव शरणं यस्येति परम्पराशरणमिति, कुपाक्षिका-I कूतमेव प्रश्नद्वारा विकल्पितमितिगाथार्थः ॥४९॥ अथ प्रथमविकल्पाकृतं दूषयितुमाह पुत्थयसरणं सुत्तं फलवं न हु होइ केवलं किंतु । पुरिसायत्तं पुरिसो पयत्तवंतोऽवि विहिविण्णू ॥५०॥ केवलं पुस्तकशरणं सूत्रं फलवन्न भवेत् ,किंतु?-'पुरुषायत्तं' पुरुषपरतन्त्रं, पुरुषोऽपि न यः कश्चित् , किंतु,प्रयत्नवानपि विधिज्ञः, सूत्रस्य ग्रहणे दाने च विधि जानातीति विधिज्ञ इति गाथार्थः ॥५०॥ अथ विधिज्ञोऽपि कीदृक् स्यादित्याह सोऽवि अदायगगाहगभावापन्नोवि जुग्गयाजुत्तो। तेणं तिपईमित्ता दुवालसंगीइ रयणावि॥५१॥ 'सोऽपि च' विधिज्ञोऽपि च दायकग्राहकभावापन्नः,श्रुतज्ञानं हि द्वाभ्यामेव साध्य,तत्रको दायकोऽपरो ग्राहकश्चेति, एवंरूपेण malitimelimuslem P AHIRANIMUMFARMIRIN ||३९॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy