SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १ विश्रामे ॥ ३४ ॥ प्रत्यक्षं, शुद्धप्ररूपणाप्रवृत्यादिना इह भरतक्षेत्रेऽच्छिन्नपरंम्परागतमिदमेव दृश्यते, दुष्करक्रियाकारित्वे, तथाविधस्यापरस्यादृश्यमा| नत्वात्, तथा कुपाक्षिकपक्षोऽप्यस्मादेव विभेति, यतः कुपाक्षिकसंसर्गोऽपि महापापहेतुः, आस्तामन्यत्, कुपाक्षिकनामाङ्कितो द्रष्टुमध्यकल्प्य इत्येवंरूपेण तपागणसाधव एव सदस्युपदिशन्ति, तथाविधसम्यक्त्वादिगुणालङ्कृतास्तदुपदेश श्रोतारोऽपि केचित् श्रावकास्तथा कुर्वन्त्यपि, अत एव श्रीपत्तने भ० समर्थेन लुम्पाका अपाङ्केया एव कृता आसन्निति सर्वजनप्रतीतमेव, न चैवं कश्चिदपरस्तथोपदेष्टा श्रूयते इत्येवं परीक्षया प्रत्यक्षम् - अध्यक्षमेवेदं तीर्थं, न चैतत् अस्माभिरेवोच्यते, किन्तु श्रीहरिभद्रभूरिप्रभृतिवचोभिरष्टमविश्रामप्रान्ते ग्रन्थसंमत्था व्यवस्थापयिष्यमाणत्वादिति बोध्यमिति गाथार्थः ॥ ३९ ॥ अथैवंविधे तीर्थे कुपाक्षिकाः कीदृक्चेष्टाभाज इत्याह एवं तित्थविआरे कसवट्टि परिखिअंमि तित्थंमि । ससमविगप्पिअमए राएण दुरासया दसवि ||४०|| ' एवं ' प्रागुक्तप्रकारेण तीर्थविचारे 'कपपट्टे' तीर्थविचारलक्षणे कपपट्टे कनकमिव परीक्षिते तीर्थे दशापि कुपाक्षिकाः 'खखम| तिकल्पितमते' स्वस्वमत्या - निज निजबुद्ध्या विकल्पितं यन्मतं पाक्षिकं तु पक्षस्यान्ते भवतीति पूर्णिमापाक्षिकं युक्तं तथा स्त्रियोऽपवित्राः कथं तीर्थकृत्प्रतिमां पूजयन्तीति स्त्रीणां जिनपूजा न युक्ता मुखवस्त्रिकादिधरणे श्राद्धानां साधुसमतेति श्राद्धानां सामायिकादौ मुखवस्त्रिका न युक्तेत्यादिकुविकल्पकल्पनलक्षणया विकल्पितं यन्मतं तत्र रागेण - अभिनिवेशनिबद्ध स्नेहेनास्मदीयं मतमेव सर्वोऽपि जन आश्रयतु नान्यदितिरूपेण 'दुराशयाः' दुष्टाध्यवसायिनः, स च दुष्टाध्वसायोऽनन्तरगाथायमेव वक्ष्यते इतिगाथार्थः ॥ ४१ ॥ अथ तेषां दुराशयमाह Jain Education International For Personal and Private Use Only तपोगणतीर्थेता ॥ ३४ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy