SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १विश्रामे ॥३३॥ पौर्णिमीयीकादयः परित्यक्तः, कुतः?-'सर्वथा' सर्वप्रकारेण, सर्वसंबन्धाद् ,अयं भावः-अयं च तीर्थबाह्यः, अतोनालापाद्यपि विधेयमित्येवंरूपेण सर्वप्रकारेण सर्वसंबन्धात्परित्यक्तस्तेन स तीर्थान्न विभेति, 'नहि मृतः पुनम्रियते' इतिन्यायात सर्वसंबन्धाभावे कुतो भयमिति बोध्यमितिगाथार्थः ।।३७।। अथ शेषाणां दिगम्बरापेक्षया बैलक्षण्यं दर्शयन्नाहसेसा अकिंचिगणिआ पढमंतित्थेण कालवलजोगा। पच्छा पसइमुवगया जह वणलेसोवि सुप्पसरो॥३८॥ शेषाः-पौर्णिमीयकादयो नवापि तीर्थेन प्रथममुत्पत्तिसमये अकिञ्चिद्गुणिताः, किमनेन वराकेण तीर्थस्य स्यादित्येवंरूपेणाकिश्चित्तया चिन्तिताः, एवं चिन्तनं कुतः ?-'कालबलयोगाद्', अवश्यं भाविनी प्रवचनपीडेति हेतुना, कश्चित्कालस्तथा परि|णतो यस्य बलयोगात्कुपाक्षिकेषपेक्षैव जाता तीर्थस्येति,अथ साम्प्रतमपि दिगम्बरादिवत् कथं न क्रियते ?, तत्र हेतुमाह-पच्छे त्यादि, पश्चाद् अनुक्रमेण प्रसृति-प्रसारमुपगताः, तीर्थसमीपस्था एव वृद्धि प्राप्ता इत्यर्थः, तत्र दृष्टान्तमाह-'जह वणे'त्यादि, | यथा 'व्रणलेशोऽपि सूक्ष्मव्रणोऽपि सुप्रसरः-अतिप्रसरवान् भवति, अत एव सूक्ष्मोऽपि व्रणो न विश्वसनीयः, यदागमः-"अण | थोवं वणथोवं अग्गीथोवं कसाय थोवं च । न हु मे वीससिअवं थेवंपिहु तं बहुं होइ॥१॥त्ति श्री आव०नि० (१२०) इति गाथार्थः |॥३८॥ अथानन्तरं यदुक्तं 'जम्हा कुवखपक्खो' इत्यादि तत्समर्थनपुरस्सरं व्यक्त्या तीर्थ दर्शयति ते पुण जम्हा निअमा ससंकिआ तंपि संपयं भरहे। तवगणतित्थं णेअंकणगं व परिक्खपञ्चक्खं ॥३९॥ ते पुनः-पौर्णिमीयकादयः सशङ्किताः-समया भवन्ति यस्मात् 'तंपिति अपिरेवार्थे तदेव 'साम्प्रतं' वर्तमानकाले 'तपाग|णतीर्थ' तपागण एव तीर्थ तपागणतीर्थ, 'भरते' इह भरतक्षेत्रे 'ज्ञेयं' बोध्यं, किंलक्षणं? केन कमिव ?-सुवर्णमिव परीक्षा ।॥३३॥ Jan Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy