SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १विश्रामे ॥३५॥ कुपाक्षिकाणामनन्तसंसारिता तेणं पइसमयं मुणिधायमहापावरुद्दपरिणामा । णंतभवभोगकम्मा तित्वमतित्थंति महमोहा॥४१॥ येन कारणेन ते कुपाक्षिका निजमतोदयमिच्छति तेन कारणेन 'प्रतिसमय समयर प्रति तत्तन्मतानां तिरस्कारकारिणस्तीर्थस्योच्छेदमेवेच्छन्ति,आत्मीयपक्षस्य पराभविष्णोरुच्छेदं सर्वोऽपि जनः समीहत एवेति जगत्स्थितिः,पराभविष्यतः कस्यचित् किंचित् स्यात्, कुपाक्षिकाणां तु तथाविधप्राग्जन्मोपार्जिताशुभक्लिष्टकर्मपरिपाकजन्यतथाविधभवितव्यतावशेन तीर्थमेव पराभविष्णुतया संपन्न, तस्य चोच्छेदे समीहमाने भावतः साध्वादीनां विनाश एव समीहितः, सोऽपि न कादाचित्कः, किंतु प्रतिसामयिकः, तेन | मुनिघातः, उपलक्षणात् साध्व्यादीनामपि, तेन हेतुभूतेन यन्महत्पापं, यदुक्तं-"चेइयदबविणासे इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स॥१॥त्ति (४१५) तेन पापेन रुद्रः परिणामो येषां ते मुनिघातमहापापरुद्रपरिणामाः, पुनः | कीदृशाः?-'महामोहाः' महा-महान् अनन्तभवसंबन्धहेतुर्मोहो-मिथ्यात्वं एषां ते महामोहाः, तत् कथमित्युल्लेखमाह-'तित्थम-| तित्थं' तीर्थ-साध्वादिसमुदायमतीर्थमिति, अतीर्थ च-स्वस्वसमुदायलक्षणं साध्वाभासादिरूपं तीर्थमिति मन्यमाना इति गम्यम्, अयं भावः-ते कुपाक्षिकास्तीर्थमतीर्थतयोपदिशन्ति, अतीथं च निजमतिविकल्पितं तीर्थतयेति महामोहविजृम्भितं, मातः परं पातकमिति चोध्यं, तथाभृतास्ते कीदृशाः संपन्ना इत्याह-'अणंतेत्यादि, अनन्तभवभोगकर्माणः-अनन्तैभवै ग्यानि कर्माणि येषां ते तथा,अनन्तसंसारभाज इत्यर्थः,उत्स्त्रभाषिणोऽनुपरताः मृताः सन्तो नियमादनन्तसंसारिण एव स्युः,यदुक्तं-"उस्सुत्तभासगाणं बोहीनासो अणंतसंसारो"त्ति, तथा 'कालमणंतं च सुए अद्धापरिअडओ अ देसूणो। आसायणबहुलाणं उकोसं अंतर होइ॥१॥त्ति श्रीआ० नि० (८५३) अत्राशातनाबहुल उत्सूत्रमाष्येव बोध्यः, प्रतिसमयं तीर्थघातपातकभाजनवाद्, अत एव घोरानुष्ठान ॥३५॥ In Education Interior For Personal and Private Use Only www.n yong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy