________________
श्रीप्रवचनपरीक्षा ॥२६॥
तीर्थस्य साध्वायत्तता
तीर्थतीर्थकरयोरन्योऽन्यं यथाह नमस्करणीयनमस्कतभावलक्षणः संबन्धोऽसूचि, तत्रान्तयुक्तिस्त्वेवं-कुपाक्षिकविकल्पितः समुदायस्तीर्थकृन्नमस्करणीयो न स्यात् , तीतो हि स्वहस्तस्थापितमेव तीर्थ नमस्कुर्वन्ति, नान्यत्, तच्च तीर्थ यावत्तीर्थस्थितिस्तावत्कालं तिष्ठत्येव, तमुच्छेदे पुनः तीर्थ तस्य तीर्थकृतो न स्यात् . किन्तु यः कश्चित् तीर्थ व्यवस्थापयति तत्तस्यैव संबन्धि, नमस्करणीयं च तस्यैव स्याद् , एवं च सति यदि कुपाक्षिकाणां समुदायस्तीर्थ तर्हि तत्तीर्थकराः शिवभूतिचन्द्रप्रभक्षिमदत्तादय एव सिद्ध्यन्ति, तदीयसमुदायानां शिवभूत्यादिमूलकत्वाद्, अच्छिन्नतीर्थानिर्गत्य स्वमतिविकल्पितप्ररूपणया तीर्थविलक्षणसमुदायस्य करणात् तीर्थानभिमतचाच्चेति युक्तिः कुपाक्षिकाशावल्ली विनाशे हिमान्येवेति गाथार्थः॥१८॥ अथ तीर्थकृत्प्रवर्तितमपि तीर्थ किमायत्तमित्याह। तं चिअ समणायत्तं पण्णत्तं जिणवरेण वीरेण । न विणा तित्थं निग्गंथेहित्ति पवयणवयणाओ॥१९॥ |
चिअत्ति एवकारार्थे, तदेव यत् श्रीवीरेण स्थापितं तदेव श्रमणायत्तं जिनवरेण-श्रीवीरेण प्रज्ञप्त, चतुषु साध्वादिवर्णेषु प्रथमः साधुरित्यर्थः, तत्र हेतुमाह-'न विण'त्ति 'न विणा तित्थं निग्गंथेहिति प्रवचनवचनात् निग्रन्थैर्विना-साधुभिर्विना तीर्थ नस्याद् , यद्यपि चतुर्णां वर्णानामन्योऽन्यानुविद्धत्वादेकाकी वर्णः कोऽपि तीर्थ न स्याद् , एकस्याप्यभावेऽपि तीर्थव्यपदेशासंभवात् तथापि साधोमुख्यत्वादितिगाथार्थः ।।१९।। अथ साधुष्वपि मूरिर्मुख्यः, स च कीदृशः कथं च स्यादित्याह
तत्थवि राया सूसे सो सूरिपरंपराइ अहिसित्तो। सोहम्माओ जंबू जंबूओ पभव इचाइ ॥२०॥ तत्रापि साधुषु राजा सूरिः-आचार्यः, स च रिः सूरिपरम्परयाभिषिक्तः-आचार्यपरिपाट्यागतेनाचार्येण पदे स्थापितः स्यात् ,
man APRIMAN HUMANIPRINDA
in Econtemton
For Person
Private Use Only
www.jainelibrary.org