________________
श्रीप्रववनपरीक्षा
।। २२ ।।
सुचा धम्मुवएसं नासुच्चाकेवलीवि दिजत्ति । धम्मुवएससावणं जिणस्सवि अणाइपरिवाडी ॥१३॥
श्रुत्वेति पदैकदेशे पदसमुदायोपचारात् श्रुत्वाकेवली - तीर्थकरादिसमीपे धर्मं श्रुत्वा यः केवली जातः स श्रुत्वा केवली भण्यते, स धर्मोपदेशं दद्याद्, यदागमः - " सुच्चाणं भंते ! इत्यादि यावत् से णं भंते! केवली केवलिपण्णत्तं धम्मं आघवेज्जा वा पण्णवेजा वा परूविजा वाई, हंता, गो०, पद्याविज वा मुंडाविज वा ?, तस्स णं भंते ! सीसावि पढावेजा वा मुंडावेजा वाई, हंता गो० ! पद्याविअ वा मुंडावेज वा, से णं भंते! सिज्झइ इत्यादि " श्री भगवती श०९ ३० ३१ 'नाश्रुत्वा केवल्यपि' धर्ममश्रुत्वा यः केवली जातः | स धर्मोपदेशं न ददातीत्यर्थः, यदागमः- “असुच्चा णं भंते! इत्यादि यावत् केवलवरणाणदंसणे समुप्पजति, से णं भंते! केवलिपण्णत्तं धम्ममाघवेज वा पण्णवेज वा परूवेज वा?, गो०! णो इणट्ठे समट्ठे, नन्नत्थ एगणाएण वा एगवागरणेण वा, से णं पवावेज वा मुंडावेज वाई, णो इणट्ठे समट्ठे, उवएसं पुण करिजा, से णं भंते! सिज्झति जाव अंतं करेति" भगवती श० ९-उ० ३१, एतद्दृ| स्यैकदेशो यथा 'आघविज्ज' त्ति आग्राहयेत् शिष्यान्, अर्घापयेत वा प्रतिपादनतः पूजां प्रापयेत्, 'पण्णवेअ' त्ति प्रज्ञापयेत् भेद| भणनतो बोधयेद्वा 'परूवेज्ज' त्ति उपपत्तिकथनतः, 'नन्नत्थ एगनाएण वत्ति नेति योऽयं निषेधः सोऽन्यत्रैकज्ञातात्, एकसुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, 'एगवागरणेण व'ति एकव्याकरणादेकोत्तरादित्यर्थः, 'पञ्चाविज्ज' त्ति प्रव्राज| येत् रजोहरणादिद्रव्यलिंगदानतः 'मुंडावेज' त्ति मुंडयेत् शिरोलोचनतः, 'उवएसं पुण करेज्ज'त्ति अमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यादित्यादि भ० श०९ ३० ३१ । एवं केवल्यपि अश्रुतधर्मा धर्मं न कथयति, अतः श्रमणश्रावणयोः परम्परानिमित्तं जातिस्मरणाद्युपयोगः, जातिस्मरणेन च प्राग्भवे श्रुतधर्मस्य स्मरणात् श्रावणमपि भव्यजनेभ्यो युक्तमेवेति दर्शयति- 'धम्मुचएस' ति
Jain Education International
For Personal and Private Use Only
श्रावणपारपर्य
॥ २२ ॥
www.jainelibrary.org