________________
श्रीप्रवचनपरीक्षा
1120 11
Jain Educationa
प्रथमानाम् - अनन्तानुबन्धिनां क्रोधादीनामुदये, तीर्थप्रद्वेषिणामुत्सूत्र भाषिणामनन्तानुबन्धिन एव क्रोधादय उदिता भवन्ति, अन्यथा चातीर्थं तीर्थतया तीर्थं चातीर्थतया वितथभणनासंभवात्, 'तीर्थात् ' श्रीसुधर्मस्वामिनोऽच्छिन्नसाध्वादिसमुदायात् केचित्| दिगम्बरपौर्णिमीय कौष्ट्रिकपाशचन्द्रनामानश्चत्वारोऽनन्तरं तीर्थान्निर्गताः केचित् — स्तनिक सार्द्धपौर्णिमीय कागमिकलक्षणास्त्रयः | 'तत्तो 'ति तस्मान्निर्गतात् पौर्णिमीयकात् निर्गताः केऽपि 'मूर्च्छिमकल्पा:' संमूर्च्छिमकल्पाः, संमूर्च्छिमद्वींद्रियादिजन्तुकल्पाः, न तीर्थात् न वा तीर्थनिर्गतात्, किंतु स्वत एवाकस्मिकनिमित्तका इत्यर्थः, ते के ? –लुम्पाककटुबन्ध्यनामानस्त्रयः, तत्र लुम्पाक| कटुकौ गृहस्थौ, वन्ध्यस्तु लुम्पाकात् निर्गतः, एते दशापि 'पापानां पापात्मनां मिथ्यादृशां पापतरा:-महामिध्यात्वन इत्यर्थः, इति गाथार्थः॥ ९॥ अथ तीर्थस्वरूपवति तीर्थे सिद्ध एव तीर्थबाह्याः कुपाक्षिका इति वक्तुं शक्यते, अतः प्रथमं तीर्थस्वरूपमाह तिथं चाण संघ तक्कारओ अ तित्थयरो । तेणं तं बुच्छिन्नं तित्थयराणण्णओ होइ ॥ १० ॥
तीर्थं तावच्चतुर्वर्णः सङ्घः - साधुसाध्वीश्रावक श्राविकालक्षणाश्चत्वारो वर्णा यत्रैवंविधः संघस्तीर्थं भण्यते, प्रथमगणधरो वा, यदुक्तं - "तीर्थं नद्यादेरिव संसारस्य तरणे सुखावतारो मार्गः तच्च द्वेघा-द्रव्यतीर्थं भावतीर्थं च द्रव्यतीर्थं तीर्थकृतां जन्मदीक्षा| ज्ञाननिर्वाणस्थानं, यदाह - " जम्मं दिखा णाणं तित्थयराणं महाणुभावाणं । जत्थ य किर निवाणं आगाढं दंसणं होइ ॥ १ ॥ " भावतीर्थं तु | चतुर्वर्णः श्रमणसंघः प्रथमगणधरो वा, यदाह- "तित्थं भंते! तित्थं? तित्थयरे तित्थं?, गोअमा! अरिहा ताव नियमा तित्थं करे, तित्थं पुण चाउवण्णो समणसंघो, पढमगणहरे वा" इति योगशास्त्रद्वितीयप्रकाशवृत्तौ, 'तत्कारकः' तद्वयवस्थापकस्तीर्थकरो, यतस्तीर्थं करोतीति | तीर्थकर इति शब्दव्युत्पश्यैव सिद्धस्तीर्थकरोऽर्हन्नेव, तेन कारणेन व्युच्छिन्नं तीर्थं तीर्थकरानन्यतो भवेत्, नान्योऽनन्यस्तीर्थकराद
For Personal and Private Use Only
तीर्थादिनिर्गतता
तीर्थस्वरूपं
च
॥ २० ॥
www.jainelibrary.org