SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ स्तनिकमतशिक्षा श्रीग्रवचनपरीक्षा ५विश्राम ॥४६॥ ANNELHIPilims HULOPARIHA स्कृष्टं वा श्रेयो-मङ्गलं, कुपाक्षिकमार्गाश्रयणापेक्षयाऽन्यतीर्थिकमार्गाश्रयणं सुन्दरमेवेतिगाथार्थः।।५३।। अथ तत्र दृष्टान्तमाह जह नाम कोइ दुहगो चिच्चाऽमियभायणं तु महुरंपि । विसमवि चइउं चउरो भक्खतो मिच्छकंदाइ ॥५४॥ । यथा नामेति कोमलामन्त्रणे दुर्भगोऽमृतभाजनं-पीयूषपात्रं तु त्यक्त्वा मधुरमपि विषं त्यक्त्वा म्लेच्छकन्दादि-लशुनादि भक्षयन् चतुरो भवति,यद्यपि लशुनादिभक्षणं कुलीनानां निन्यं दुर्गन्धदुःस्वाद्यं भक्षितुमनुचितं, विषं तु किंचिन्नालिकेरकर्पूरादिसंयोगजन्यं सुस्वाद्यं सुगन्धि सुवर्ण च भवति, तथापि तथाविधमपि विषं त्यक्त्वा, अपिरेवार्थे व्यवहितः संबध्यते, त्यक्त्वैव तुच्छभक्षणीयमपि तथाविधं लशुनं भक्षयन् न जीवितव्यान्मुच्यते,तथा 'जीवन्नरो भद्रशतानि पश्यतीति न्यायात् पुनरपि स सुभोजनं लभते, तथाऽन्यतीथिकः कश्चित्तथाविधोऽपि इह परत्र वा बोधि लभते, अभिनिवेशी तु नियमाद्दुर्लभबोध्येव, यदागमः--"पंचहिं ठाणेहिं जीवा दुल्लहबोहिअत्ताए कम्मं पकरेंति, तं०-अरहताणं अवण्णं वयमाणे १ अरहंतपण्णत्तस्स धम्मस्स अव०२ आयरिअउवज्झायाणं अ०३ चाउवण्णस्स संघस्स अ०४ विविक्कतववंभचेराण देवाणं अ०५" इति श्रीस्थानाङ्गे, अत्र त्वेकस्याप्यवर्णवादेन दुर्लभबोधिता भणिता,उत्सूत्रभाषी तु युगपत्सर्वेषामप्यवर्णवादीति प्रागुक्तमिति गाथार्थः॥५४।। अथोत्सूत्रमार्गाश्रयणापेक्षया श्रयोऽन्यतीर्थिकतीर्थाश्रयणमित्यत्रापि दृष्टान्तमाह तेणेव जिणवरेणं जइलिंगधरो अकजकजकरो । तम्हा चइउंलिंगं सुसावगो सुंदरो भणिओ॥१५॥ येन कारणेन प्रागुक्तं तेनैव कारणेन यदि यतिलिङ्गधरो अकार्यकार्यकरः-अब्रह्मसेवाद्यासक्तः, तस्मात्कारणाद्यतिलिङ्गं त्यक्त्वा सुश्रावकः शोभन इति जिनवरेण भणितः,अयं भावः शोभनः, यतः-"नय पवयणुड्डाहकरे कंठग्गयपाणसेसेऽवि"त्ति प्रवचनवचः, तथा यदि मिथ्यात्वं तूभयोरप्यावश्यकं तद्युत्सूत्रभापणं हि तीर्थस्य महाशातना, तत्परित्यागेनैव तच्छोभनमिति गाथार्थः ॥५५॥ RASHNA BHAIRLINESHARIHARISHAN MAHILA ॥४६३॥ Jan Education Internation For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy