SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ५विश्रामे ॥४६२॥ जंज जेणं जेणं रूवेणं तित्यसम्मयं समए । तं तेण सरूवेणं रीअंतो तित्थमज्झत्थो ॥५१॥ स्तनिकमतसमये-जैनप्रवचने यद्यद्वस्तु येन येन रूपेण तीर्थसम्मतं-तीर्थेनाङ्गीकृतं. यथा भाद्रपदसितचतुर्थीपर्युषणा पर्वत्वेनाभ्युपगता||| शिक्षा तीर्थन,तद्वस्तु तेन स्वरूपेण रोचयन्-रुचिविषयीकुर्वन् श्रद्दधदित्यर्थः स तीर्थमध्यस्थो भवति-तीर्थान्तर्वी स्यादिति गाथार्थः॥५१॥ अथ सामान्येन तीर्थान्तर्वतित्वमभिधाय तीर्थबाह्यत्वं प्रकृतं स्तनिकमधिकृत्य विशेषेणाह-- तित्थाओ विवरीअं थणिअमय तं थणिअविवरी। एवंपि धम्मपिम्म निकारणकजउप्पत्ती ॥५२॥ तीर्थाद्विपरीतं स्तनिकमतम्-आञ्चलिकमतं 'तंपिति तीर्थमपि स्तनिकविपरीतं-स्तनिकमताद्विपरीतस्वरूपं, चरणप्ररूपणाभ्यामन्योऽन्यं प्रतिपक्षतेवेत्यर्थः, यद्यप्येकप्रतिक्षताभणनेन द्वितीयप्रतिपक्षता सिद्ध्यति तथापि बुधचन्द्रयोरिवैकपाक्षिक्या अपि प्रतिपक्षतायाः संभवात् तन्निरासार्थ उभयप्रतिपक्षता दर्शिता, स्तनिको हि तीर्थच्छायामिच्छन्नेव तीर्थ दूषयति, तीर्थं तु स्तनिकादिसमुदायस्तीर्थप्रतिपक्षभूतो दृष्ट एव संसारवृद्धिहेतुरित्युपदिशति, यदागमः-"जे जिणवयणुत्तिण्णं वयणं मासंति जे उ मण्णंति । सहिट्ठीणं तदसणंपि संसारखुढिकरं ॥१॥"ति श्रीविशेषावश्यकभाष्ये। एवमपि परस्परं प्रतिपक्षतायामपि सत्यां यदि धर्मप्रेमपरस्परं धर्मप्रीतिः स्यात्तहि निष्कारणकार्योत्पत्तिः तन्त्वादिकारणमन्तरेणापि पटादिलक्षणकार्योत्पत्तिः प्रसक्तेति गाथार्थः ।। ५२॥ | अथ स्तनिकस्य गाथात्रयेण हितमुपदिशन् प्रथमगाथामाह तम्हा तित्थं चइ तित्याहिअमभिनिवेस महपावं । चइऊणमण्णउत्थिअतित्थासयणं परं सेअं॥५२॥ यस्मात् तीर्थप्रतिकूलता धर्मविरोधिनी तस्मात्तथाविधकर्मपरिणत्या यदि तीर्थाज्ञा कर्तुमशक्या तथाऽप्ययमुपदेशो-यत्तीर्थ त्यक्त्वा | तीथाहितं-तीर्थस्य पीडाकारि रोगकल्पमभिनिवेशं महापापं त्यक्त्वा अन्यतीर्थिकाश्रयणं-शाक्यादिदर्शनावलम्बनं परं-केवलमु- ॥४६२॥ PARTIES SARDARDS For Pesonand Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy