SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ।। १५ ।। Jain Educationa International | सुअकखंधस्स वक्रखाणं तं महया पबंघेणं अणंतगमपजवेहिं सुत्तस्स य पिहभूआहिं निजुत्तिभासचुण्णीहिं जहेव अणतणाणदंसणधरेहिं तित्थय रेहिं वखाणियं तहेव समासओ वक्खाणिअंतं आसी, अहऽण्णया कालपरिहाणि दोसेण ताओ निज्जुत्तिभासचुण्णीओ बुच्छि नाओ, इओ अ वच्चंतेण कालसमएणं महढिपत्ते पयाणुसारी वयरसामी दुवालसंगसुअहरे समुप्पण्णे, तेणेसो पंचमंगलमहासुअक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुतं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरिहंतेहिं भगवंतेहिं धम्मतित्थगरेहिं तिलोअमहिएहिं वीरजिणिदेहिं पण्णविअंति बुद्धसंपयाउत्ति " ॥ श्रीमहानिशीथसूत्रेऽध्यने ४। किंच - श्रीवत्रस्वामिकृतत्वेन हेतुनाऽनङ्गीकारवचनमपि महामोहहेतुः सर्वेषामपि गर्हणीयस्य दोषद्वयस्य सद्भावात्, तथाहि - वज्रखाम्यकृतेऽपि तत्कृतमिति महापुरुषस्य कलङ्कदानमुभयलोकविरुद्धमित्येको दोषः, “जो कण्णाइ धणेण य निमंतिओ जुवणंमि गिहिवइणा । नयरंमि कुसुमनामे तं वयररिसिं नम॑सामि ||१||" इत्यादिस्तुतिवचनैः श्रीभद्रबाहुखामिप्रभृतिमहा पुरुषैः स्तुतो युग प्रधानोऽप्यागमव्यवहारी श्रीवज्रखामी सर्वजनप्रतीतः आगमव्यवहारिणां चाज्ञा न तीर्थकृदाज्ञातो भिन्ना, अतस्तदाज्ञोल्लङ्घने तीर्थकृतामप्याज्ञाया उल्लंघनमावश्यकमिति | द्वितीयोऽपि महादोषः, तस्मादास्तां तत्कृतनिश्चये, तत्कृतसंशयेऽपि 'हवइ मंगल' मित्येवं भणनीयं स्यात्, कर्ता च श्रीवत्रस्वामी अम्युपगंत च श्रीमहावीरप्रवर्त्तितं तीर्थम्, एवं च सति यः कश्चिद्वराको नाभ्युपगच्छेत् तस्य महति संकटे पतनं, तथाहिश्रीवज्रखामी तदाज्ञा चेत्युभयमप्याराध्यत्वेन तीर्थस्याभिमतमित्यविवादेन युष्माकमपि सिद्धं, तथा यदि 'हवइ मंगल 'मिति श्रीवज्रस्वामिकृतमिति यौष्माकीणोऽभिप्रायः स्यात् तथापि श्रीवज्रस्वामिकृतत्वेन तीर्थाभिमतत्वेन च तत्तथैवांगीकर्त्तव्यम्, | अन्यथा तीर्थबाह्यता शक्रशतैरपि पराकर्तुमशक्या, तस्मात् यथा श्रीकालकसूरिप्रवर्त्तिता पर्युषणाचतुर्थी तीर्थाभिमता तीर्थबहिर्भ - For Personal and Private Use Only होइपाठचर्चा ॥ १५ ॥ www.janelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy