________________
maraman
स्थापनाचार्या
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५५||
INHEADRA
विज्ञेन समग्रसामाचारीसमाचरणचतुरेणापि साधुना गुरोरभावे स्थापनाचायस्य पुरत एव यथोदितकृत्यं क्रियते यथा “भरुअच्छंमि
अ विजए नडपिडए वासनाग नागहरे। ठवणा आयरिस्सा सामायरी पउंजणया ॥१॥ (आव०नि०१४१३) तर्हि तथाविधविश|दसमयसारविचारचतुरचेतस्केन सदाऽन्योऽन्यकार्यकदम्बकप्रवणमनस्केनोपासकेन सुतरामेतद्विधेयमित्यागमप्रमाणमुपदर्य युक्तिमपि दर्शयामः, तथाहि-यदि स्थापनाचार्यमन्तरेणापि वन्दनाद्यनुष्ठान विधीयते तदा यद्वन्दनकनियुक्तौ "आयएमाणमित्तो चउदिसि होइ उग्गहो गुरुणो" (१२३३ वृत्तौ) इत्याद्यक्षरवग्रहणप्रमाणमुक्तं तत्कथं घटामियत्ति?,नहि गुर्वभावे गुरुगतावग्रहप्रमाणं घटमानकं स्यात् , ग्रामाभावे तत्सीनो व्यवस्थावत् , तथा तत्रैव यदपरमुक्तं 'चउस्सिरं तिगुत्तं च दुपवेसं एगनिक्खमणं" (१२१४) इत्यादि, तदपि न युक्तं भवेत् , यतश्चतुःशीर्पत्वं वन्दनकदातृतत्प्रतीच्छकयोः सद्भावे सति संभवति, तच्च स्तनिकाभिप्रायेण कथं युज्यते ?, साक्षाद्र्वभावे स्थापनाचार्यस्यानभ्युपगमात् , द्विप्रवेशैकनिष्क्रमणविचारणा तु गुरोरभावेऽवधिभूतस्था- | | पनाचार्यास्थापनानिगमप्रवेशाभावेन दुरापास्तव, अर्थतहोपपरिजिहाँपुः परः प्रेरयति-ननु वयमपि हृदयमध्ये गुरुं स्थापयामस्ततश्च सर्व सुस्थं, हहो तदपि खरविषाणे लावण्यवर्णनमिव केवलप्रयामहेतुरेव, हृदयमध्यत्तित्वाद् गुरोर्वन्दनकदात्रा सहैव संचरणात् न कथंचिदपि तदातुनिगमप्रवेशौ स्यातां, तदसच्चे च न पञ्चविंशत्यावश्यकसंपूर्तिः, तदसंपूतौं च वन्दनकाशुद्धिः, एवमपाकृतः सन् भृयोऽपि मुखरतया परो ब्रवीति-ननु न केवलं वयं हृदयमध्ये एव गुरुं व्यवस्थापयामः, किं तर्हि निकटतरवर्तिकटकुडयादावपि स्थापयित्वा तद्विधापयामः, हन्तवं त्रुवता भवताऽपि शून्यहृदयतया 'अक्खे वराडए वा कडे पुत्थे अचित्तकम्मे अ । मभावममभावं ठवणायरिअं विशाणाहि ॥१॥ इत्यागमवचनात् स्वमुखेनैव स्थापनाचार्यस्थापनाऽस्मदीष्टाऽमन्यत, तस्माच्छा
AHMAHRTAITHIBAIKINNAIm
॥४५॥
In Education International
For Personal and Private Use Only
www.jainelibrary.org