SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ५ विश्रामे ||४४६|| | लोकोत्तरमिध्यात्ववासितो भवेत्तदा पुनर्जन्मान्तरेऽपि दुर्लभबोधिः स्याद् अतः सर्वेषामप्यस्पृश्य इतिगाथार्थः ॥ ३१ ॥ अथ सुग्धजनत्रासकं कुपाक्षिकवचनं यथा- जो पुण पुत्थं तित्थं अहवा पुत्थेण नित्यमुद्धरिअं । इच्चाई बुचतो पावेसुडवणारिओ णेओ ||३२|| यः पुनः कश्चित्कुपाक्षिको लुम्पाकादि तीर्थं पुस्तकं मन्यते, यतः पुस्तकपरंपरयैव सम्यग्मार्गावाप्तिः स्यात्, किं तीर्थेन प्रयोजन| मित्यभिप्रायवानित्यर्थः, अथवा पुस्तकेन तीर्थमुद्धृतं, व्युच्छिन्नमपि तीर्थं पुस्तकं सिद्धान्त पुस्तकमवाप्य प्रादुष्कृतमस्माभिरित्यादि | वाणः पापेष्वपि यावन्तः पापात्मानस्तेष्वपि अनार्यो--नीचो ज्ञेयो, यतस्तथा वक्ता महानृतवादी, स च सर्वपापेभ्योऽप्यधमो भवति, यदुक्तं - "एकत्रासत्यजं पापं पापं निश्शेषमेकतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥ १॥" इत्यादि योगशास्त्रवृत्तौ, | तीर्थे च व्युच्छिन्नं तीर्थकरमन्तरेणास्तां पुस्तकादि केवलिनाऽपि प्रादुष्कर्तुमशक्यं, तीर्थव्यवस्थापनेन च तीर्थकराधिक्यप्रसङ्गादिति | गाथार्थः ||३२|| अधानृतत्वमेव स्पष्टयति जह सवर्ण मोकग्वंगं भणिअं तह क्षेत्र कत्थई पुत्थं । जं तं पुरिसायत्तं पुरिसोऽवि परंपरायत्तो ||३३|| यथा श्रवणं-धर्मश्रुतिर्मोक्षानं भणितं यदागमः “ चत्तारि परमंगाणि, दुल्लहाणि अ जंतुणो । माणुसतं सुई सद्धा, संजमंमि अ वीरिअं ॥ १॥” इति श्रीउत्त०९५ तथा कुत्रचित् - क्वाप्यागमे पुस्तकं नैत्र-नोक्तमेव, तत्र हेतुमाह- 'जंत'न्ति यद्यस्मात् तत्पुस्तकं पुरुषायत्तं पुरुपपरतन्त्रं, आस्तां वाचनं, लिखनमपि पुरुषमन्तरेण न स्यात्, तथा च लिखनं शोधनं वाचनं चेति त्रितयमपि पुरुपायतं, नहि पुरुषनिरपेक्षं पुस्तकं किंचिदपि स्वानुरूपं पुस्तकं जनयति, नवा शोधयति वाचयति चेति, कथं पुस्तकपरम्परा धर्म Jain Educationa International For Personal and Private Use Only चतुर्थी पर्युषणा ||४४६ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy