________________
श्रीप्रववनपरीक्षा
५ विश्रामे
॥४४४॥
आगमवदपि आगमः - सिद्धान्तो विद्यते यस्य तदागमवद् एवंविधमपि तीर्थकर नमस्करणीयत्वात्तीर्थकरादपि बलवद् यदी - तिगम्यं यद्यागमविरुद्धचारि-आगमविरुद्ध पर्युषणा चतुर्थ्यादि तेन चरितुं शीलमस्येति तत्तथा, आगमविरुद्धचारि म्यात् तर्हि | अन्यः-तीर्थाद् व्यतिरिक्तः कोऽपि चागमचारी भण्यते लोके मनुष्यलोके त्रैलोक्ये वा?, न कोऽपीत्यर्थः, त्रैलोक्यपूज्यमपि तीर्थं । यदि प्रवचनविरुद्धं भाषेत प्रवर्त्तत वा तर्हि तीर्थमप्यतीर्थं भवेत्, तथा च तीर्थोच्छेदेऽतीर्थभूताः कुपाक्षिका अपि न भवेयुः, सत्येव तीर्थे कुपाक्षिकाणां संभवः, तीर्थोच्छेदे तीर्थाप्रवृत्तौ वाऽन्यतीर्थिका भवन्ति, न पुनर्जमाल्यादयः कुपाक्षिका अपि, नहि वणिजा - | मभावे वणिक्पङ्किबाह्यव्यपदेशभाक् कोऽपि वणिग् संभवति यस्मिन् सत्येव यस्ततः पृथग्भूय तद्विरुद्धाचारखान् स्यात् स तद्वाह्यो भण्यते, एवं च सति चतुध्यति तीर्थे विद्यमाने स्तनिकस्तद्वत्पञ्चम्याश्रितस्तीर्थवाद्य इत्यनन्यगत्यैव तीर्थ सम्यगितिगाथार्थः ||२७|| अथ तीर्थप्रत्यनीकोऽनन्यगत्या कीडगू स्यादित्याह-
तत्थ पडिवकस्वभूओ तित्थयराइणमहिअपडिवो । सोवि जइ हुज्ज दकखो मुक्खो दुभिक्खमुहवडिओ ॥२८॥ तीर्थप्रतिपक्षभूतः - तीर्थप्रतिकूलक्रियामक्तस्तीर्थकरादीनामपि प्रतिपक्षी-द्वेषी चकार एवार्थे प्रतिपक्ष एव, सोऽपि यदि दक्षो-निपुणो भवेत्तर्हि मूखों-जडो दुर्भिक्षमुखपतितः- दुर्भिक्षे येषां क्षयो भवति तन्मुखे प्रथममयमेव पतितः, एतावता मूर्खस्य जगति दुर्भिक्षोऽवगन्तव्यः तथा चानन्यगत्याऽयमेव मूर्खचक्रवतीतिगाथार्थः ||२८|| अथ तीर्थानभिमतवादिनः पातकं गाथाद्वयेनाह-
Jain Educationa International
तित्वपडिकूलवणं न तात्रमित्तेण पावहेउत्ति । किंतु अरहंतपमुहा मुसं वयत्तत्थवत्ती ||२९|| तत्तोऽविअ पद्ममयं नित्यृच्छे अं पइच्छई पावो । तंदुलमच्छुधिच्छा पइसमयं न भवजणिआ ||३०|| “युग्मं”
For Personal and Private Use Only
M
चतुर्थी
पर्युषणा
॥४४४॥
www.jainelibrary.org