SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्रीश्वचनपरीक्षा ५ विश्रामे 1188 11 | पुनः श्रीकालकाचार्याचरिताया अपि चतुर्थ्या उल्लङ्घनं विहितं, तस्या - अतिबलवच्चाद्, अत एवं पूर्णिमापक्षोऽद्यापि पूर्णिमायां | पाक्षिकं चतुर्मासकं च कुर्वाणोऽपि पर्युषणां तु चतुर्थ्यामेव विदधाति, तन्मतेऽनादिसिद्धमपि चतुर्द्दश्यां पाक्षिकं पूर्वाचार्येणाचरितं स चाचार्यश्चतुर्थीमवर्तक श्री कालकाचार्यव्यतिरिक्त एवेतिकृत्वा नास्माकं सम्मतमिति - विकल्पः, अत एव शतपदीकारेणापि कापि चतुर्थीपर्युषणा न दूषिता, न वा केचित्पञ्चम्यां पर्युषणां कुर्वति केचिच्चतुर्थ्यामेवेति आचरणावैचित्र्ये दर्शितं प्रत्युत पौषधपर्वस्थितिद्वारे पर्युपणायामष्टमतपस उत्तरपारणकं प्रतिपद्येवोक्तं, तथाहि - "रण्णा अंतेउरिआ भणिजा-तुम्भे अमावसाए उविवासं काउं पडिवयाए सवखज्जविहीहिं साहू उत्तरपारणए पडिला भेत्ता पारेह, पञ्जोसवणाए अहमतिकाउं पडिवयाए उत्तरपारणयं । भवइ "इतिनिशीथदश मोदेशकोक्तः, तथा-अट्टमछट्टच उत्थं संवच्छर चाउमा सपकखेसु । न करेइ सायबहुलो न य विहरइ मासकप्पेणं ॥ १||" इत्युपदेश मालावचनाच्च पर्युषणादिनत्रयस्यापि पर्व्वत्वं सुग्रतीतमेन, अतो दिनत्रयेऽपि पौषधम विरुद्धमेवेति इतिपौषधविचारः ३६ ॥ इति शतपद्यां, अत्राष्टमतपम उत्तरपारणकं प्रतिपद्येवोक्तं, न पुनः क्वापि शतपद्यामपि द्वितीयायामुत्तरपारणकं, नवा केचि स्प्रतिपदि केचित्तु द्वितीयायामपीति वैचित्र्यमपि दर्शितं तेन चतुर्थीपर्युषणामधिकृत्य शतपदकारकाले विप्रतिपत्तिर्नासीदिति बोध्यम्, अन्यथा प्रवचनविरुद्धमन्यद् बहुविधं प्रलपन्नपि तदपि प्रालपिष्यत्; तच्च क्वापि नोक्तं तद्विपयकचचगन्धोऽपि नोद्भावितः । किंच - शतपद्युद्धारेऽपि “अंतरावि अ से कप्पड़ पजोसवित्तए, नो से कप्पड़ तं स्यणि उवायणावित्तए 'ति श्रीपर्युषणाकल्पे | पञ्चाशद्दिनातिक्रमः साक्षान्निषिद्धोऽत एव श्रीकालकाचार्येण परं चतुर्थ्यां पर्व कृतं न पुनः षष्ठ्यामिति शतपद्युद्धारे ३८द्वारे, अथ पर्युषणामधिकृत्य समुदायार्थस्त्वेवं- स्तनिकमते पूर्व पर्युषणा चतुर्थ्यामेव, श्रावण भाद्रपदवृद्धौ च दिनगणनया एकोनपञ्चाशद्दिनैरेव, Jain Educationa International For Personal and Private Use Only चतुर्थीपयुषणा 1188011 www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy