________________
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४३९॥
चतुर्थीपयुषणा
SIMILSINAINAuTIOHINI NIRMANATLABline
पल्लविकाः पञ्चमीवचना इत्यद्धजरता, अयं भावः-शतपदाकारण चूर्णिः सिद्धान्ततयाऽभ्युपगता,चूणों च युगप्रधानश्रीकालकाचार्यप्रवर्तिता चतुर्थी तीर्थसम्मताऽद्य यावदच्छिन्ना प्रवर्तते, एवं सत्यपि पर्युषणा सिद्धान्तोक्ताऽस्माकं सम्मतेति महत्यसंगति, द्वयोर्मध्येऽन्यतरस्यावश्यं त्यागापचया,चतुर्थीत्यागे शतपदीकारोपित्यजनीय एव स्यात् ,न च तदानीं शतपदीकारश्वतुर्थी प्रमाणतया वाणोऽपि पञ्चमीमेव स्वयं कृतवानिति शङ्कनीय, चतुर्दशीपाक्षिकपरिहाराभिधित्सया चतुर्दश्यां पाक्षिकं न कालकाचार्यप्रवर्तितं, किंतु कियता कालेन चतुर्थीयर्युषणानुरोधेनान्यैराचार्यैराचीर्णमिति समर्थितवान् , तथाहि-किंच-अधुनाऽऽचार्यैरपि पाक्षिकमागमाभिप्रायेण पञ्चदश्यामेवाभ्युपगतं, यथा स्थानकवृत्तिः"एवं च कारणेण कालगायरिएहिं चउत्थीए पजोमवणं पवत्ति, समत्थसंघेण य अणुमनि, तबसेण य पखिआणिवि चउद्दसीए आयरिआणि, अण्णह आगमुत्ताणि पुण्णिमाए" इति, अथ यदैव कालकाचार्यैः पञ्चमीतश्चतुर्थ्यां पर्युषणा कृता तदैव पञ्चदशीतश्चतुद्दश्यां पाक्षिकमपीतिचेत्तन, यतः पर्युषणाकल्पे "अन्जकालगेहि कारणिआ चउत्थी पत्तिा , सा चेव खाई गया सबसाहणं"ति, अनेन पर्युपणाविषयैव चर्चेति, न पुनः कापि पाक्षिकस्येति, अपिच-स्थानकवृत्तिकृताऽपि तबसेण य पखिआणिवि चउद्दसीए आयरिआणि" इत्येवमुक्तं, न पुनरुक्तं कालकाचार्येण पाक्षिकमपि चतुर्दश्यामानीतमिति १२ इति शतपद्यां द्वादशाधिकशततमद्वारे, अत्र श्रीकालकाचार्यचरिताऽन्याचार्याचरितयोः परस्परं भेददर्शनेन कश्चिद्विशेषो वक्तव्यः, स च मूक्ष्मधिया पर्यालोच्यमानः श्रीकालकाचार्याचरितायाश्चतुर्थ्याः प्रामाण्यमन्तरेण न संभवति, अन्यथा स्तनिकमते चतुर्दशीपालिकचतुर्थीपयुषणयोद्वयोरपि पूर्वाचार्याचरितत्वेन परिहार्यत्वे विशेषाभावाद् अथ यदैवेत्यादिशिष्यनोदनायुद्भावनस्याकिश्चित्करत्वमेवापद्यते. किंच-पूर्वाचार्यैरपि चतुर्थ्यनुरोधेन पाक्षिक परावर्तितं, न
||४३९॥
Jan Educationa international
For Person and Private Use Only
www.jainelibrary.org