________________
तिथिमासविचारः
श्रीप्रवचनपरीक्षा ४विश्राम ॥४१४॥
DHARTHATI
मूलतोऽपि गतायां आराध्यत्वेन पवरूपायां पूर्णिमायां चतुर्दशीकृत्यं क्रियते,अत्र च चतुर्मासकव्यतिरिक्ता पूर्णिमा अमावास्या |च श्रावकाणामेव 'चाउद्दसट्टमुद्दिट्टपुण्णमासिणीसुपडिपुण्णं पोसह सम्म अणुपालेमाणा विहरंती'ति प्रवचनवचनात् पौषधव्रतमात्र| मङ्गीकृत्याराध्यत्वेनाभिमता, न पुनः क्वापि साधूनामपीयममुकविधिनाऽऽराध्येति, तथा च पाक्षिककृत्यमधिकृत्य यथा त्रयोदशी तथा पूर्णिमाद्यपीति कथं पाक्षिककृत्योपयोगिनी, क्षीणा च चतुर्दशी त्रयोदश्यां सर्वात्मना स्थितेति त्रयोदश्यां द्वयोरपि विद्यमानत्वाचतुर्दशीकृत्यं त्रयोदश्यामेव युक्तमिति, अत्र च बढ्यो युक्तयः सन्ति,किंचिद्विस्तरार्थिना तुमत्कृततत्त्वतरङ्गिणीतो कोध्या इति गाथार्थ ।।२१६॥ अथ समाप्तिसूचकोदयस्य प्राधान्यसमर्थनाय दृष्टान्तमाह
आमूला महगारो मंजरिपज्जंतओ महंतोऽवि। न पहाणो किंतते फलं पहाणं मणुअजुग्गं ॥२१७॥ आमूलात्-मूलादारभ्य मञ्जरीपर्यन्तो महानपि सहकारो न प्रधानः, किंत्वन्ते मनुजयोग्यं फलमेवोपगम्य,फलमेव प्रधानम् , आमूलफलपर्यन्तस्याखण्डस्य वृक्षस्य प्रधानोऽवयवः फलं तदतिरिक्तस्याप्राधान्यात् , फलार्थमेव शेषावयवेष्वपि प्रयत्नकरणाद्, अत एव फलित एव सहकारे वृत्यादिना यत्नकरणं, नान्यथा, फलोपेक्षकाणां तु वटादिवृक्षसदृश एव सहकारोऽपीति गाथार्थः ॥२१७॥ अथ दृष्टान्तदान्तिकयोजनाय गाथामाहफलसरिसो मो उदओ जम्मि समप्पइ तिही अमासो अ। मंजरिपळतसमो सेसो फलसाहगोसमए ॥२१८॥
फलसदृशः स उदयः-सूर्योदयो यस्मिन्नुदये तिथिः समाप्यते-यमुदयमुपलभ्य तिथिः समाप्ति याति, चः पुनरर्थे,मासो वा। संक्रान्ति प्राप्य मासः समाप्तिं याति सैव संक्रांतिः फलसदृशी, तथाविधसूर्योदयसमन्विता तिथिर्मासो वा विवक्षितनियत
SHIRADHANASHIROHIBITINGH
॥४१४॥
Jan Education Intebon
For Personal and Private Use Only
www.
byorg