________________
UN
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४१०॥
अयथास्थानोत्सूत्रं
नलगति कस्यचित्पावे यल्लभ्यं तस्य लाभो न भवतीत्याधुपहसन् यक्षावेशोज्झितवसनोऽप्यलंकृतपुरुषं प्रत्युपहसभिवावगन्तव्यः, कथमन्यथा पञ्चभिर्मासैश्चतुर्मासकं त्रयोदशभिर्मासैदशमासात्मक संवत्सरममिवर्द्धितवर्षे ब्रुवाणोऽपीथमत्रपोऽभविष्यत् , ननु सर्वत्राप्यागमे "चउण्हं मासाणं अटुण्डं पक्खाणं" इत्यादि तथा "चारसण्डं मासाणं" इत्यादि पाठ एवोपलभ्यते,न पुनस्तत्स्थाने कापि | "पंचण्डं मासाणं दसहं पक्खाणं" इत्यादि, तथा "तेरसण्हं मासाणं छबीसहं पक्खाणं" इत्यादिपाठ इति, तस्मादागमबलेनैव प
श्रमिरपि मासैश्चतुर्मास्येव त्रयोदशमासैश्च संवत्सर एव स्वीक्रियते इतिचेचित्रं, पन्नगवदनेऽप्यमृतबुद्दोद्भवः, नहि काप्यागमे | 'भद्दवयसुद्धपंचमीए पजोसवइति पाठवत् "अभिवइढिअवरिसे सावणसुद्धपंचमीए पजोसचिजति"त्ति पाठ उपलभ्यते इति, किं काकेनाधिको मासो भक्षित इति वैधर्मिकवचनमेव बोध्यं, तस्माद्यथा चतुर्मासाद्यपेक्षयाधिको मासो न प्रमाणं तथा स्थविरनवकल्पविहारादौ 'आमाहे मासे दुपया' इत्यादिसूर्यचारे तथा लोकेऽपि शुद्धवर्षान्तरभाविषु नियतवासादिप्रतिबद्धाक्षततृतीयादीपोत्सवादिपु पर्वस्वप्यधिको मासो न प्रमाणतया व्यवहीयते, तस्मात्तात्पर्यमाह-यत्कृत्य प्रतिमासं नामग्राहं नियतकृत्यं तत् तस्मिन्नेव मासे विधेयं, नान्यत्रेति, विवक्षया तिथिवन्यूनाधिकमासोऽप्युपेक्षणीयः, अन्यत्र तु गण्यतेऽपि, तथा हि-विवक्षितं| |हि पाक्षिकप्रतिक्रमणं तचतुर्दश्यां नियतं, सा च यद्यमिवर्द्धिता तदा प्रथमां परित्यज्य द्वितीयापि कर्तव्या, दिनगणनायां त्वस्या |
अन्यासां वा वृद्धौ संभवन्तोऽपि षोडश दिनाः पञ्चदशैव गण्यन्ते, एवं क्षीणायां चतुर्दशापि दिनाः पञ्चदशैवेतिबोध्य, तद्वदत्रापि |विवक्षितं कृत्यं सांवत्सरिप्रतिक्रमणादि, तच मासमधिकृत्य भाद्रपदे नियतं, स च यद्यमिवर्द्धितस्तदा प्रथम भाद्रपदं परित्यज्य द्वितीयोऽधिकर्तव्यः, दिनगणनायां त्वस्यान्यस्य वा मासस्य वृद्धौ संभवन्तोऽप्यशीतिदिनाः पञ्चाशदेव गण्यन्ते, यथा परस्या
॥४१०॥
For Person Piese