________________
मासकल्पाव्यवच्छेदः
श्रीप्रत्रचनपरीक्षा ४विश्राम ॥४०४||
जं मासकप्पअविहार वयं पंचवत्थुए अथितं तेणेव कमेणं नवकप्पा निअमओ नहुणा ॥२०॥
यत् 'मासकल्पाविहारव दितिवचनं पञ्चवस्तुके-पञ्चवस्तुकवृत्तावस्ति-विद्यते तत्तेन क्रमेणैकस्मिन् कस्मिश्चिन्मासकल्पं विधायान्यत्र समीपवत्तिनि ग्रामेऽपि मासकल्पमित्यादिक्रमेण नत्र कल्पाः नियमतो-निश्चयेनाधुना न मन्तीतिभावार्थः, अत एवानपानादीनां दौर्लभ्ये मासकल्पभङ्गो भणितः, यदुक्तं-जह दखिणादीसाए पडिलेहंति तो इमे दोसा-भत्तपाणं न लभंति, अलभते जं | विराहणं पावेंति, एसणं वा पेल्लेति. जं वा मिक्खं अलभमाणा मामकप्पं भजनि"त्ति श्रीआवश्यकपारिछपनिकानियुक्तिप्रान्ते वृत्तावितिगाथार्थः॥२००॥ अथ हेतुमाह... कालपरिहाणिदोसा खित्ताभावेण ऊणया अहवा । अहिए पाडगवसहीसंधारगवच्चयाईहिं ॥२०१।। "कालस्म य परिहाणी संजमजुग्गाई नस्थि खित्ताई । जयणाइ वट्टिअवं न हु जयणा भंजए अंगं ॥१॥" इत्यागमवचनात्कालपरिहाणिदोषात क्षेत्राभावेन ऊनता स्याद् , अयं भावः-दुष्पमकाले नगराणि ग्रामतुल्यानि ग्रामाश्च प्रेतवनोपमा भविष्यंतीति प्रायो मासकल्पयोग्यानि क्षेत्राण्यल्पानि,ततोऽपि चतुर्मासकयोग्यान्यल्पानीतिकृत्वा माऽधिकावस्थानेन कुलादिषु प्रतिबन्धभाजः साधवो-| भूवनिति मासकल्पोऽप्येकत्रकादिदिनैरून एवं कर्तव्य इत्याचरणा कृता, न पुनयुच्छेदधिया यावजीवमेकत्रैवावस्थातव्यमिति कापि दृष्टं श्रुतं वा, तथात्वे चान्यत्र स्थितानां जनानां साधुदर्शनाद्यभावेन कथं धर्मप्राप्तिः स्याद् ?, अथाचरणयोनतायां हेतुमाह'अथवेत्यादि. अथवेत्यपत्रादपदेऽधिकावस्थाने पाटके च सति संस्तारकव्यत्ययादिमिरेकत्र क्षेत्रेऽवस्थातव्यम् , अयं भावः-कदाचिनथाविधग्लान्यादिसद्भावेऽक्षमो विहारादौ पाटकपरावर्त्तनेन तिष्ठति, तत्मामय्यभावे च वसतिपरावर्त्तनेनैवं संस्तारकव्यत्ययेनापि
॥४०४॥
Jain Education Internation
For Personal and Private Use Only
www.
byorg