SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥ ९ ॥ इत्यर्थः तेनैव कारणेन श्रीहीरविजयगुरुरिति नामा, हीति दुःखहेतुर्विरहिजनस्य शोककारणं इः- कामो यस्मात् स हीः- चंद्रो रविः - सूर्यस्तयोर्जयो यस्य सः, तयोर्जेतेत्यर्थः, स चासौ गुरुश्चेति, श्रिया युक्तस्तथा श्रीहीरविजयगुरुः एवंविधं गुरुं प्रणम्य, किंलक्षणं :| प्रणयस्य भावः - उत्पत्तिर्यस्मात् स प्रणयभावो भावनिर्देशात् स्नेहहेतुत्वमापन्नं - प्राप्तं, समस्तलोकवल्लभमित्यर्थः, किं कुर्वन्तं :- स्ने हलोचनाभ्यां - सस्नेहनयनाभ्यां लोकान् पश्यन्तं, करुणैकरसाईलोचनावलोकनशीलमिति गाथायुग्मार्थः ॥ ५-६ ॥ अथ श्रोतृजनप्रवृत्तिनिमित्तमभिधेयं प्रयोजनं च दर्शयन् गाथामाह वीरजिणजम्मसङ्कन्तभासरासिप्पभावओ पउरा । पवयणपूआ सहणा कुपकुखिआ ते म्मि दंसेमि |||७|| तान् कुपाक्षिकानहं दर्शयामि - वाग्गोचरीकुर्वे इत्यन्वयः । 'अस्मदो म्मि अम्मि अम्हि हं अहं अहयं सिने' ति प्राकृतसूत्रेण म्मि, अहमित्यर्थः, यत्तदोर्नित्याभिसम्बन्धात् तान् कान् ?, ये 'कुपाक्षिकाः' पक्ष:- अङ्गीकारः प्रयोजनं येषां ते पाक्षिकाः उत्सूत्रभाषणादिना | कुत्सितास्तीर्थनिन्द्याः ते च ते पाक्षिकाश्च कुपाक्षिका इति व्युत्पन्या उत्सूत्रभाषिणोऽभिनिवेशमिथ्यात्विन इत्यर्थः, वर्त्तन्त इति | वार्त्तमानिका क्रिया अध्याहार्या, तेन निस्सत्ताकी भृतसंताना जमाल्यादयो न वक्ष्यन्ते, किन्तु विद्यमानसन्तानाः दिगम्बरादि| पाशपर्यन्ता वक्ष्यन्त इत्यर्थः । अथोत्सूत्र भाषिणां स्वरूपभाषणाय विशेषणमाह-'पवयण'त्ति, किंलक्षणास्ते १ - 'प्रवचन पूजाऽसहनाः' | प्रवचनस्य पूजाया - अभ्युदयस्यासहना - द्विषः, यतः शिव भूतिचन्द्रप्रभाचार्यादयोऽनन्तानुबन्धिकषायोदयिणः प्रवचनपूजाभिभूतय एव नवीनमतप्रवर्त्तका अभूवन् कथमन्यथा स्वयंसिद्धं सिद्धिसौधसौख्यास्वादकल्पं तीर्थं परित्यज्य नवीनमतकल्पना| क्लेशेनात्मानं अकदर्थयिष्यन् ? । ते च कुपाक्षिकाः कियन्तः १ - 'पउर' त्ति प्रचुराः - प्रचुरसंख्याकाः, प्रचुरत्वे हेतुमाह-'वीरजिण'त्ति Jain Educationa International For Personal and Private Use Only अभिधेयप्रयोजने ॥ ९ ॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy