________________
HATION
श्रीप्रवचनपरीक्षा
श्रीविजयदानविजयहीरसूरिस्तुति
॥८
॥
साधुविहारक्षेत्रेऽस्खलिताप्रतिबद्धविहारेण लोचनानन्दकारि, सकललोकानामिति गम्यम् , चन्द्रोऽपि सह कलामिवर्तत इति सकलासंपूर्णो, भावनिर्देशात् सकलत्वेन विहारो-गगनमण्डले चंक्रमणं तेन जननेत्राणामानन्दकारीति चन्द्रसाम्यं ॥ यावञ्जीवं विकृत्यादिपरित्यागादिना संविनत्वादिगुणैरद्वितीयपण्डितशिरोमणिपं०श्रीजीवर्षिगणिवचःप्रबुद्धस्य मे प्रव्रज्याप्रतिपत्तिहेतुरुक्तः सूरिः अतो मङ्लनिमित्तं स्मृतिगोचरीकृत इति गाथायुग्मार्थः ॥२३।। अथ ज्ञानसंपद्धेतुत्वेन परमोपकारिणं मूर्ति स्मृतिगोचरीफुर्वमाहतस्स पए पुण अहिणवसूरो दूरहिआण बहुतायो । सिरिविजयदाणसूरी नामेणवि कुमयतममहणो ॥४॥
तस्य-श्रीआणंदविमलसूरेः पदे-पट्टे श्रीविजयदानसूरिः,स च किंलक्षणः?-'अभिनवसूरि दृश्यमानसूर्यापेक्षया विलक्षणः सूर्यः, अथ वैलक्षण्यमेव स्पष्टयति-'दूरट्टिति दरस्थितानां बहुः-भृयानसह्यस्तापः-प्रतापजन्यः पराभवो यस्मात् स तथा, अन्यस्तु द्रष्टुजनानामुदयास्तसमय एव दूरो भवति, तदानीं च न बहुतापः, किंत्वल्पताप इति वैलक्षण्यं, तथा 'नाम्नाऽपि नाममात्रेणापि 'कुमततमोमथन' कुमतांधकारनाशकृद् , अन्यस्तु सूर्यः स्वोदयेनैव तमो नाशयति, न पुनर्नाममात्रेणापीति बैलक्षण्यमितिगाथार्थः ॥४॥ अथ यदाज्ञामवाप्येदं प्रकरणमारभ्यते तं सूरिं नमस्कतुं गाथायुग्ममाह
तस्सवि पयंमि विहिणा एगीकाऊण सोमसूरे अ। घडिओ उभयसहावो तेण सिरिहीरविजयगुरू ॥५॥ संपइ तं जुगपवरं पणमित्ता पणयभावभावणं । सबंमि अ जिअलोए लोअंतं नेहनयहिं ॥६॥ तस्यापि-श्रीविजयदानसूरेरपि 'पयंमि'पदे श्रीहीरविजयसूरिः विधिना-विधात्रा घटितो-निष्पादितः, किं कृत्वा?-सोमसूरौ-चन्द्रभास्करावेकीकृत्योभयखभावो घटितः, अयं भावः-चन्द्रसूर्योपमितयोः प्रागुक्तसूर्योर्गुणान् समुदायीकृत्योभयखभावो घटित
भाHIDPINION
Jan Education Intematon
For Personal and Private Use Only
www.jainelibrary.org