________________
श्रीप्रवचनपरीक्षा
aimalaidaiPRImmi MAHITIANIMANISHNADITIONALISARDAIHIRAA MHIMIRIBRatitle
| किं कर्त्तव्यमितिचेद् उच्यते,न हि आगमासंगतमभ्युपगच्छत् तीर्थ स्यात् ,न वा तीर्थमागमासंगतमभ्युपगच्छेत् ,शीतोष्णस्पर्शयोरि-पाचपर्यवागमासंगततीर्थाभ्युपगमयोरन्योऽन्यं विरोधस्यानादिसिद्धत्वात् , तस्मात् सदोषदृशामेव मरुमरीचिकाजलज्ञानदृष्टान्तेन तीर्थाभ्युप-10 षणा तीर्थ गतमागमासंगतमिवाभाति, न पुनर्निदोषदृशामपि, अत एव तीर्थाभ्युपगतां पर्युषणाचतुर्थी परित्यज्य पश्चमी स्वीकुर्वाणस्तीर्थबाह्य इत्यञ्चलमतनिराकरणविश्रामे वक्ष्यामः॥ ननु कालकसूरेः पूर्व तीर्थकुद्गणधरादिमहापुरुषैः पञ्चम्यामेव पर्युषणा कृतेति बुद्धिमवलब्य तथा कुर्वतामस्माकं कथं तीर्थबाह्यतेति चेद् ,उच्यते-चतुर्थीप्रवर्तककालकसूरेरारम्याद्य यावत् चतुर्थ्याश्रितं तीर्थमच्छिन्नमिति | तवापि प्रतीतम् , एवंविधे तीर्थे विद्यमाने तत्प्रतिकूलचारी पञ्चम्याश्रितस्त्वं खत एव तीर्थबाह्यः संपन्नो, यो यतः प्रतिकूलाचारवर्ती | स ततो बाह्य इति तु गोपालस्यापि प्रतीतम् ।। किंच-श्रीऋषभजिनपरिणयनकालात् पूर्वभाविनां यौगलिकमनुष्याणामपरिणीतभ्रातृभगिनीसंबंधोऽपि दम्पतिभावाश्रितो यथा निर्दोषतया व्यवह्रियमाणोऽनिन्धो भवन्नपीदानीन्तनमनुष्याणां सदोषो यावदपातेयहेतुश्च स्यात् तथाऽत्रापि बोध्यं, तेन सार्वजनीनप्रवृत्तौ सत्यां तद्विपरीतप्राचीनप्रवृत्तेः सत्पुरुषाचरिताया अपीदानीमनादरणीयस्वमेवेति बोध्यम् , चतुर्थीपर्युषणायाश्च सार्वजनीनत्वं प्रवचने प्रतीतमेव, नहि तदानीं पञ्चमीपर्युषणामाश्रितः कोऽपि पक्ष आसीद् , अत एव चतुर्थीपर्युषणाश्रितस्य यतो बाह्यत्वं भण्यते तत्पक्षस्यैवाभावादनन्यगत्याऽपि चतुर्थीश्रितमेव तीर्थ, ततो बाह्यत्वं च पञ्चमीपर्युषणाश्रितस्य समुदायस्य स्फुटमेव, तस्य बाह्यत्वव्यपदेशहेतोश्चतुर्थीतीर्थस्य विद्यमानत्वादिति सिद्धम्-'अच्छिन्नपि अ तित्थं पभाविअं पुण्णचरिआए'त्ति ॥ तथा 'चंदु'त्ति स श्रीआणंदविमलसूरियुगप्रवरो-युगप्रधानः- संविग्नः संविनत्वादिगुणैरद्वितीयोऽत एव सर्वविख्यातः-सर्वत्र ख्यातिभाक्,किंलक्षणः',चन्द्रवत् सोमलेश्यः,सकलविहारेण लोचनानन्दः, सकले
Jan Econo
Fored Pies