SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ मस्मग्रहः श्रीप्रवचनपरीक्षा ॥१०॥ | वीरजिनजन्मशब्देन तदुपलक्षितं नक्षत्रमुत्तरफाल्गुनीरूपं ग्राह्यं, तत्र सङ्क्रान्तो-मेषादिराशिचारानुक्रमेणागतो भस्मराशि:-भस्मरा-| शिनामा क्रूरग्रहः, एकसिन् नक्षत्रे द्विसंहस्रवर्षस्थितिभाग, तस्य प्रभावो-महिमा तस्मात् , श्रीमहावीरस्य निर्वाणावसरे जन्मनक्षत्रे संक्रान्तभस्मराशिमाहात्म्यात् कुपाक्षिकबाहुल्यमित्यर्थः, ननु द्विसहस्रवर्षान्ते श्रीवीरजन्मनक्षत्रात् व्यतिक्रान्ते भस्मराशौ कुपाक्षिकप्राचुर्य भविष्यति उत नेति चेदुच्यते, प्रायो न भविष्यतीति संभाव्यते, यतस्तदानीं निग्रंथानां निग्रंथीनां च पूजाऽभिवृद्धिरुक्ता, यदागमः-"जं रयणिं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे तं रयणि चणंखुद्दाए भासरासी नाम महग्गहे दोषाससहस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनक्षत्तं संकेते तप्पभिई च णं समणाणं निग्गंथाणं निग्गंथीण य नो उदिओदिए पूआसक्कारे पवत्तई, जया णं से खुद्दाए जाव जम्मनक्षत्ताउ वइकते भविस्सइ तयाणं समणाणं निग्गंथाणं निग्गंथीण य उदिओ| दिए पूजासक्कारे भविस्सइ"त्ति श्रीपर्युषणाकल्पे,तादृशी च पूजा कुनृपकुपाक्षिकेषु बलवत्सु सत्सु न संभवति, तेषां च प्रवचनपूजाया | असहिष्णुत्वात् , तत्र कुनृपास्तावत् कल्किराजपुत्रस्य दत्तनाम्नोराज्ञ आरभ्य पश्चमारकपर्यन्तमसंभविनः,यदुक्तं श्रीहेमाचार्यपादैः| "पितुः पापफलं घोरं,शक्रशिक्षा च संस्मरन् । दत्तः करिष्यति महीमर्हच्चैत्यविभूषिताम् ॥१॥ पञ्चमारकपर्यन्तं,यावदेवमतः परम् । प्रवृत्तिर्जिनधर्मस्य,भविष्यति निरन्तरम् ।२।" इति श्रीमहावीरचरित्रेश्रीशत्रुञ्जयमाहात्म्ये च,एवं सर्वदेशविसंवादिनो दिगम्बरराकारक्तादयः कुपाक्षिका अपि दत्तनाम्नो राज्ञ आरभ्य पञ्चमारकपर्यन्तमसंभविनोऽवगन्तव्याः,द्वयोरपि प्रवचनपीडापूजाभिभवकारित्वेन तौल्यात् ,ननु कुनृपा बलवन्तः प्रवचनपूजाया असहिष्णवः सन्तः पराभविष्णवः संभवन्ति,तत्कृतौ तेषां सामर्थ्यात् ,कुपाक्षिकास्तु वराकाः प्रायः प्रवचनागीता एव वर्तमानाः कथं प्रवचनपूजां पराभवन्तीतिचेत् सत्यं, यद्यपि स्वातन्त्र्यात् किश्चित्कर्तुमसमर्था एव, PRINTDelimHENDITU MEANITALIRIGHTTHALINITIATIONALIMIMPRATIMITA RAIPHATHITAll TION-imminamaintam ॥१०॥ in Education tembon For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy