________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥ ३७७॥
त्यादि, न पुनः कापि "दिवस अहोरतं दुन्नि अहोरते वे "त्यादिपाठः संप्रदायादागतः, न चैतत्काल्पनिकं, तस्यार्थवृत्तिकृता तथैव प्रदर्शितत्वात्, तथा हि-यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद्गृहीतानि यावज्जीवं भावनीयानि, शिक्षापदत्रतानि सामायिक| देशावकाशिकपौषधोपचासातिथिसंविभागाख्यानि चत्वारि, प्रतिदिवसमनुष्ठेये द्वे सामायिकदेशावकाशिके, पुनः पुनरुच्चार्ये इतियावत्, पौषधोपचासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयौ, पुनः पुनरष्टम्यादितिथिष्वनुष्ठीयेते इति, शि क्षा - अभ्यासस्तस्याः पदानि - स्थानान्यभ्यासविषयास्तान्येव व्रतानि शिक्षापदवतानि, गुणव्रतानि तु न प्रतिदिवसग्राह्याणि सकृद्याह्याण्येव इति तत्वार्थवृत्तौ पत्र १९४ सर्वपत्र २६३, अत्रोक्तवाक्यद्वयस्यापि पुनः पुनरष्टम्यादितिथिष्वनुष्ठेयेते इति परमार्थः प्रदशितः, अत एव प्रथमपञ्चाशक वृत्तौ श्री अभयदेवसूरिभिः पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयावित्येकमेव वाक्यं निगदितमिति गाथार्थः ॥ ८०॥ अथ विरोधमाह
सिक्खा पुण अवभासो करणिज्जं पइदिणं खु तंपि वयं । अट्ठमिमाइसु कज्जो नन्नासु विरुद्धवयणमिणं ॥ ८१ ॥
शिक्षा पुनरभ्यासो भण्यते, तत्र व्रतं प्रतिदिनं दिनं२ प्रति करणीयं- कर्त्तव्यम्, अन्यथाऽभ्यासस्यैवासंभवाद्, अभ्यासो हि प्रतिदिनं कर्त्तव्याः, यदुक्तं - "अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च वर्द्धनम् । अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ॥ १||" इत्येवं सत्यप्यष्टम्यादिष्वेव पौषधो विधेयो नान्यास्विति विरुद्धवचनमिदमिति गाथार्थः ||८१|| अथ प्रतिबन्दीमाहसिक्वावसु चसुवि तिष्णि वयाई तु सम्मयाई तुहं । पइदिणकरणिजाई किं पोसहपंत भेएण! || ८२ ॥ शिक्षात्रतेषु चतुर्षु त्रीणि व्रतानि सामायिकदेशावकाशिका तिथिसंविभागनामानि तु तवापि - खरतरस्यापि प्रतिदिनं करणीयानि
Jain Educationa International
For Personal and Private Use Only
अपर्वपौषधः
।। ३७७ ।।
www.jainelibrary.org