________________
AIIMMM
श्रीप्रवचनपरीक्षा ४विश्रामे ।।३७६॥
न्यूनोत्सूत्रे अपर्वपौषधनिषेधः
...
H
inine
तत्वार्थवृत्तौ सप्तमाध्याये इति गाथार्थः ॥७९॥ अथ तत्वार्थवृत्तावेव वक्ष्यमाणं पदं भ्रान्त्युत्पादकमुद्भाव्य समर्थयितुमाहनत्तत्थवित्तिमाइसु न य पडि दिवसत्ति वयणमभिहाणं । तप्परमत्थो अट्टमिमाईसु पुणो पुणुच्चारो॥१८०॥ - तचार्थवृश्यादिषु तत्वार्थवृतिश्रीआवश्यकवृत्तिचूादिषु न प्रतिदिवसेति वचनाभिधानं, मकारोऽलाक्षणिकः, 'पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवसाचरणीया' वित्येवंरूपेण यद्वचनं तस्याभिधानं-कथनं तत्परमार्थः-तस्य तात्पर्यमष्टम्यादिषु तिथिषु पुनः पुनरुच्चारः कर्तव्य इत्यक्षरार्थः,भावार्थस्त्वयं-"पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ,न प्रतिदिवसाचरणीया"विति श्रीतच्वार्थवृत्त्याद्यनुसारेण निषेधस्य विद्यमानत्वात् कथं प्रतिपदादिषु भजनेति पराकूतं, तदयुक्तं, यतः तत्र प्रतिनियतदिवसगब्देन पौषधादिचिकीर्षया स्वाभिमतो दिवसो ग्राह्यः, स च पौषधाद्यकरणे प्रायश्चित्तप्राप्तिवशाचतुष्पादिरूपो नियमेन ग्राह्यः, शेषस्त्वनियमेनेति, तथा मा भवतु तदनुष्ठितानुष्ठानापर्यवमानं चारित्रोचारवजिनप्रतिमाप्रतिष्ठावडा पौषधोपचागनुष्ठानमपर्यवसायि मा भवत्वित्यर्थः, तत्र कालनियमार्थमाह-'न प्रतिदिवसाचरणीया विति. यद्वा स्वाभिप्राया| रूढद्वित्रादिदिवसानुगामित्वप्रतिषेधायाह-न प्रतिदिवसाचरणीयाविति, अयं भावः-नहि मचरितः पौषधो द्वितीयादिदिवसगामी भवितुमर्हति, नवा जिनप्रतिष्ठावन्सकृत्कृतश्चातिथिसंविभागः प्रतिदिवसमनुगच्छति, किं त्वतिथिसंविभागचिकीर्षुभिः प्रतिदिवसमुभावपि यथाशक्ति कर्तव्यावेव, कथमन्यथोपधानवाहनादिविधौ प्रथमदिवसे श्राद्धा अष्टादशादीन् पोषधान्न ग्राह्यन्ते ?, तस्मात्पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयाविति प्रथमं वाक्यं विवक्षितदिवसानुष्ठानस्यैव ज्ञापकं, न प्रतिदिवसाचरणीयाविति द्वितीयं वाक्यं तु कालनियमनापकम् , अत एव पौषधोच्चारालापकोऽपि "जाव दिवस अहोरत्तं पज्जुवासामी".
॥३७६॥
in Education Internation
For Personal and Private Use Only
www.
byorg