________________
श्रीप्रव. चनपरीक्षा ४विश्रामे ॥३७०||
ऊनसूत्रे स्त्रीजिनपूजानिषेधः
परमार्थास्तुष्टिभाजो भवन्ति-अहो एतेऽपि सम्यग्वादिनो दृश्यन्ते इति,ये तु जिनवचनपरमार्थज्ञास्ते तावदित्थं विचारयन्ति-राज- धनमादाय नश्यच्चौरः हेरिकैर्गृहीत्वा राजसमीपमानीतो निजकुलाचार पूत्कुर्वाणः- अहो अयं सत्यवादीतिकृत्वा किं राज्ञा मोच्यते?, एवमयमपि, अन्यथा लुम्पाका अपि तथा वक्ष्यमाणा उपेक्षणीयाः सत्यवादितया वा वक्तव्याः स्युरित्यादि स्वयमेव पर्यालोच्यं, गणसामाचारीवक्ता तथाविधो धृतों न विश्वसनीयः, किंतु यथा ननु भो चौर! त्वत्कृत्यं शुभमशुभं वेति नोदितो जगत्स्थितिविलोपाशक्तोऽशुभमेव बूते,तद्दण्डोऽपि तन्मुखादेव कर्त्तव्यो भवेद् , एवमत्रापि ननु भो जिनदत्तापत्य ! स्त्रीजिनपूजानिषेधरूपा त्वदभिमता सामाचारी किं सम्यगुतासम्यग्या?, इत्येवमुदीरितो यदि मृदुः स्यात्तर्हि सम्यगिति वक्तुमशक्तोऽसम्यगेव,परं गच्छसामाचारीति शरणं श्रयते, तदा च तद्वचनादेव तथा दण्डयोग्यः कर्तव्यः,अथ धूर्तः कश्चिद्धाष्टर्यभाग बूते-सम्यगेव, तदानीं प्रष्टव्यःभो ताइक्सामाचारी श्रीसुधर्मस्वामिनोऽच्छिन्नपरम्परागता उत त्वदमिमताचार्यात्प्रवृतेति?, तत्र प्रथमं विकल्पं वक्तुमशक्तो जिन| दत्ताचार्यादेव प्रवृत्तेति ब्रूते,तत्रैवमभिधातव्यं-भो खरतर! म आचार्यः किमागमव्यवहारी उत श्रुतव्यवहारी?, प्रथमो वक्तुमशक्यः, तदानीमागपव्यवहारस्य व्युच्छिन्नत्वात् , श्रुतव्यवहारे च श्रुतव्यवहारमुल्लङ्घय प्रवर्तमानो द्रष्टुमप्यकल्प्यः, यो यो यद्ययवहारवान स म तं तं व्यवहार पुरस्कृत्य प्रवर्तमानो जिनाज्ञाराधको, नान्यथा,एवं च सति श्रुतव्यवहारवानप्यागमव्यवहारिणोऽप्यधिकमात्मानं मन्यमानः कृत्यं स्त्रीजिनपूजानिषेधरूपं प्ररूपयन् कीदृशो भण्यते?,वक्तुमप्यशक्य इत्यर्थः, यतोऽद्यप्रभृत्येतादृशं प्ररूपणं न केनापि कृतम् ,अनेन च धार्थमवलम्ब्य विहितमतः सामाचारीति वचनं न तुष्टिहेतुः, सामाचारीवचनमप्याधुनिकानामेव, प्राचीनास्तु तदीयास्तीर्थऋद्भिरेव स्त्रीणां जिनपूजा निषिद्धा इत्यवादिषुः, यदुक्तं-आशातनाभङ्गभयादेव स्त्रीणां स्वहस्तेन जिनबिम्बपूजा
ARMERITAIIAN
PARSA
MUMBAIIMohall
Jan Education !
For Personal and Private Use Only
www.jainelibrary.org